________________ नैषधीयचरितं महाकाव्यम् यन्त्रस्थसिद्धार्थपदाभिषेकम् = यन्त्रे तिष्ठतीति यन्त्रस्थ: 'आतोऽनुपसर्गे कः' इति स्थाधातोः कः प्रत्ययः ( उपपदसमासः ) स चासो सिद्धार्थश्चेति यन्त्रस्थसिदार्थः ( कर्मधारयः) तस्य पदे अभिषेकम् ( क्रमेण ष० तत्पु०, सप्तमी तत्पु०)। अत्र विरोधाभासोऽलङ्कारः 'आभासत्वे विरोधस्य विरोधाभास इष्यते' इति तल्लक्ष भावः-निजपुरोगतभूपनिवारितः परगतश्च निपीडितदेहकः / / तिलनिपीडन-यन्त्रग-सर्षपोऽपि न विवेद सुसिद्धतदर्थकम् // अनुबादः-आगे चलने वालों से रोके गये मार्गवाला एवं पीछे चलने वालों से ढकेला जाता हुआ कोई राजा कोल्हू में पड़े सरसों के सारूप्य को प्राप्त होकर भी अपने को सर्षप नहीं समझा। यहां पर सिद्धार्थक शब्द श्लिष्ट है जिसका सरसों और सिद्धकार्यवाला यह दो अर्थ होता है, दूसरे ( स्वं सिद्धार्थ न मन्यते स्म) यहां सिद्धार्थ शब्द का सरसों अर्थ करने पर विरोधाभास होता है दूसरे अर्थ में समाधान होता है ( उस विरोध का परिहार होता है), अतः यहाँ पर विरोधाभास अलङ्कार है। कोल्हू में पड़े सरसों के समान विक्षत शरीर वाले हमको दमयन्ती नहीं मिल सकती है ऐसा समझा यह तात्पर्य है // 6 // राज्ञां पथि स्त्यानतयानुपूर्वीविलङ्घनाशक्तिविलम्बभाजाम् / आह्वानसंज्ञानमिवाग्रकम्पेर्दधुविदर्भेन्द्रपुरीपताकाः .. अन्वयः-विदर्भेन्द्रपुरीपताका अग्रकम्पः पथि स्त्यानतया आनुपूर्वीविलङ्घनाशक्तिविलम्बभाजाम् राज्ञाम् आह्वानसंज्ञानम् इव दधुः / व्याख्या-विदर्भेन्द्रपुरीपताकाः = भीमनृपनगरीध्वजवस्त्राणि, अग्रकम्पःस्वाग्रचालनैः, पथि - मार्ग, स्त्यानतया= संहततया, आनुपूर्वीविलङ्घनाशक्तिविलम्बभाजाम् = क्रमिकसञ्चरणातिक्रमणसामर्थ्यविरहकृतविलम्बानाम्, राज्ञाम् - नृपाणाम्, आह्वानसंज्ञानम् = आकरणसङ्केतम्, इव= यथा, दधुः = चक्रुः / टिप्पणी-विदर्भेन्द्रपुरीपताकाः = विदर्भाणामिन्द्रः तस्य पुर्याः तस्याः पताकाः (षष्ठी तत्पुरुषत्रयम् ) / अग्रकम्पैः = अग्राणां कम्पः (10 तत्पु० ) स्त्यानतया = स्त्य धातोरात्वे कृते स्त्या इत्यस्मात् क्तप्रत्ययः तस्य 'संयोगादेरि'त्यादिना नत्वे ततः भावे तल प्रत्ययः / स्त्यानस्य भावः स्त्यानता तया स्त्यानतया। आनुपूर्वीविलङ्घनाशक्तिविलम्बभाजाम् = अनुपूर्वस्य भावः आनुपूर्वी 'गुणवचनेत्यादिना व्यन् प्रत्ययः "षिद्गीरादिभ्यश्चेति डीप अलोप