Book Title: Katantra Vyakaranam Part 01 Author(s): Jankiprasad Dwivedi Publisher: Sampurnanand Sanskrit Vishva Vidyalay View full book textPage 8
________________ प्रौढपाण्डित्यस्य समीक्षाशक्तेश्च समन्वयो बहुधा अगुलिगणनीयेष्वाचार्येषु समुपलभ्यते । तस्य सङ्गमस्य प्रतीकभूता आचार्याः श्रीद्विवेदिनो वाराणस्याः सम्मानिता विद्वांसः । पूर्वमयं विश्वविद्यालयः, तदनन्तरं च केन्द्रीयोच्चतिब्बतीशिक्षासंस्थाननामा मानितविश्वविद्यालय एतैः स्वकीयया विद्यासाधनया समलङ्क्रियत इति हर्षप्रकर्षस्य विषयः । सेयमेतेषां विशिष्टा साधनाऽनवरतं प्रवहति, यस्याश्चेदं केवलं प्रथम पुटम् । द्वित्रा भागाः सम्प्रति अवशिष्टा वर्तन्ते । एतेनैतेषां योगदानस्य माहात्म्यं स्पष्टमनुमातुं शक्यते । अहं तेषामस्यै साधनायै विश्वविद्यालयस्य सम्मानं समर्पयन् प्रकाशनाधिकारिणं डॉ०हरिश्चन्द्रमणित्रिपाठिनं मुद्रकम् 'आनन्द-प्रिंटिंग प्रेस'यन्त्रालयस्य सञ्चालकं श्रीदिवाकरत्रिपाठिनं च धन्यवादैः सम्भावयन् ग्रन्थमिमं पाठकेभ्यः समर्पयामि । मण्डनमिश्रः वाराणस्याम् मार्गशीर्षपूर्णिमायाम्, वि०सं० २०५४ । कुलपतिः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्यPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 452