Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्त्रव्याकरणम्
I
नामचतुष्टयम्, इदं षट्सु पादेषु निबद्धं षड्लिङ्ग-कारक - समास-तद्धितात्मकं सप्तत्रिंशदुत्तरशतत्रयसूत्रात्मकम् (३३७) अस्ति । 'देहि' इति आख्यातपदम् तेन तृतीयं प्रकरणम् आख्यातविषयस्य वर्ततेऽष्टपादात्मकमेकोनचत्वारिंशदुत्तरशतचतुष्टयसूत्रात्मकं (४३९) चेति । शर्ववर्माचार्येण विरचितान्येतावन्त्येव पञ्चपञ्चाशदुत्तराष्टशतमितानि सूत्राणि (८५५) । षट्पादेषु विभक्तं कृत्प्रकरणं षट्चत्वारिंशदधिकपञ्चशतसूत्रात्मकं (५४६) विरचितमाचार्येण वररुचिना । श्रीपतिदत्तविरचितं कातन्त्रपरिशिष्टम्, चन्द्रकान्ततर्कालङ्कारेण लिखितानि कातन्त्रच्छन्दः सूत्राणि च व्याकरणस्यास्य समृद्धिं कुर्वन्ति ।
२
अस्य वृत्ति- टीका-न्यासादिरूपा व्याख्यानग्रन्था बहवो विलसन्ति, येषां परिचयः प्रास्ताविकांशादवगन्तव्यः। परं दुर्गसिंहीयव्याख्यानमन्तरा कातन्त्रं कथमपि ज्ञातुं नैव शक्यते। तदीयं च व्याख्यानं वर्तते 'वृत्ति - टीका' - द्वयरूपम् । त्रिलोचनदासकृता विवरणपञ्जिका, सुषेणविद्याभूषणकृतः कलापचन्द्रश्च प्रस्तुतान् दोषानाक्षेपान् चा समादधाति, किं च विस्तरेण विषयं प्रकाश्य मन्दधियामपि हिताय प्रभवति । प्रायेण व्याख्याचतुष्टयमेतत् कातन्त्रीयसन्धिप्रकरणसूत्रेषु सर्वेष्वेवोपलभ्यते । अत्र बहूनामाचार्याणां ग्रन्थानां च मतमुद्धृतं दृश्यते । अपि च 'वयम् - वस्तुतः - परमार्थतःअयमभिप्रायः' इत्यादिभिर्बहुभिः प्रतीकवचनैः स्वकीया विचारा अपि प्रकाशिताः सन्ति । तस्मादेता एव चतस्रो व्याख्या अत्र प्रस्तुताः ।
स्वकीयकातन्त्रव्याकरणाध्ययनान्वेषणपरिचयः
कातन्त्रव्याकरणमधिकृत्य शोधकार्यं मयाऽष्टषष्ट्यधिकैकोनविंशतिशततमे यीशवीयाब्दे प्रारब्धमासीत् । शारदा - उत्कल - वङ्गाक्षरमयांस्तदीयान् हस्तलेखानध्येतुमहं विविधशिक्षासंस्थानेषु गतवान् । प्रायेण शतत्रयसंख्याका हस्तलेखा मया वर्षत्रितयेऽधीताः। एवं कातन्त्रव्याकरणविमर्शनामकं शोधप्रबन्धमधिकृत्य वाराणसेयसंस्कृतविश्वविद्यालयेन 'वाचस्पति' (डी० लिट्०) शोधोपाधिर्मह्यं प्रदत्तो द्विसप्तत्युत्तरैकोनविंशतिशतमितयीशवीयाब्दस्य मार्चमासे । विश्वविद्यालयेन प्रकाशितः उत्तरप्रदेशसंस्कृत-अकादमीसंस्थया स प्रबन्धो विशेषपुरस्कारेण पुरस्कृतोऽपि वर्तते । शोधप्रबन्धोऽयं सप्ताध्यायेषु विभक्तः कातन्त्रीयविषयविवेचनात्मकः पाणिनीयव्याकरणविषयेण सह तुलनात्मकश्चास्ते ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 452