Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 12
________________ भूमिका ३ केन्द्रीय-उच्चतिब्बतीशिक्षासंस्थानात् 'कलापव्याकरणम्' शीर्षको मदीय एको प्रकाशितः अष्टाशीत्युत्तरैकोनविंशतिशततमयीशवीयाब्दे । ग्रन्थेऽस्मिन् सप्तविंशतिर्मूलसूत्रपाठाः सम्मिलिताः सन्ति । अन्येऽपि केचन शिष्यहितान्यास - कातन्त्ररूपमाला-कातन्त्रोणादिसूत्रादयो ग्रन्थाः प्रकाशिता विविधस्थानेभ्यो विद्वद्भिः । परं कातन्त्रीयस्य कस्याप्येकस्य सूत्रस्यार्थोदाहरणप्रत्युदाहरणाक्षेपसमाधाननिर्वचनादिसाधनाय नैवाद्यावधि क्वचित् प्रयत्नः संजातः । तस्यैव कार्यस्य पूर्तये एका शोधयोजना मया सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य प्रकाशनविभागे प्रस्तुता आसीत् । विषयस्य गौरवं मन्यमाना प्रकाशनसमितिर्मदीयं प्रस्तावमङ्गीकृत्य ग्रन्थमिमं चतुर्षु खण्डेषु प्रकाशयितुं निर्णीतवती । एतस्य निर्णयस्य फलस्वरूपमेव सन्धिप्रकरणात्मकं प्रथमं खण्डमिदं मुद्रितं दृश्यते । ग्रन्थगतविषयादियोजना ग्रन्थः अत्र प्रतिसूत्रानन्तरं हिन्दीभाषायां सूत्रार्थः, दुर्गवृत्तिः, दुर्गटीका, विवरणपञ्जिका, कलापचन्द्रश्च प्रस्तुतः। व्याख्याचतुष्टयान्ते हिन्दीभाषायां समीक्षा कृताऽस्ति, यत्र चतसृषु व्याख्यासु विचारितानां विविधमतानां विशिष्टा अंशा दर्शिताः । पाणिनीयकातन्त्रयोः सूत्ररचनादिविषयक उत्कर्षोऽपकर्षश्च विवेचितः । सूत्रप्रक्रियाप्रदर्शनपुरस्सरमुदाहृतशब्दानां संक्षेपेण रूपसिद्धिरपि कृता । सन्धिप्रकरणस्यैकोनाशीतिसंख्याकानां सूत्राणां व्याख्याचतुष्टये षण्णवत्यधिकैकशतमितोदाहृतशब्दानां रूपसिद्धिर्दर्शिता । उदाहृतशब्दानां सूची द्वितीये परिशिष्टे निबद्धा | व्याख्यासु स्मृतानां प्रायेण सार्धशतश्लोकानां सूची तृतीये परिशिष्टे द्रष्टव्या । व्याख्याकारैः प्रसङ्गतः प्रायेण शतद्वयमिताः शब्दा व्युत्पादितास्तेषां संग्रहोऽत्र चतुर्थे परिशिष्टे कृतः । शैली-प्रक्रिया-योजनादिप्रतीकाः प्रायेण शतत्रयमिता विशिष्टाः शब्दा व्याख्यासूपलभ्यन्ते, ते पञ्चमे परिशिष्टे संगृहीताः । व्याख्याकारैस्तदीयमतप्रदर्शनाय प्रसङ्गतः प्रायेण शतत्रयमितानि ग्रन्थनामानि स्मृतानि तानि षष्ठे परिशिष्टे संकलितानि ।एवमेव 'अन्ये- अपरे -अमरसिंह- उमापति - केचित् - महाभाष्यकार'प्रभृतिभिः शब्दैराचार्या अपि स्मृताः, तेऽपि शोधकार्यस्य सौविध्याय सप्तमे परिशिष्टे संकलिताः । सन्धिप्रकरणमाश्रित्य वर्तमानानां मयाऽधीतानां च हस्तलेखानां मुद्रितग्रन्थानां सम्पादनकार्ये सहायकानां च ग्रन्थानां सूची अष्टमे परिशिष्टे संलग्नाः । , -

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 452