Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 13
________________ कातन्त्रव्याकरणम् कातन्त्रस्य कानिचिद् वैशिष्ट्यानि कातन्त्रव्याकरणस्य सन्धिप्रकरणगतसूत्राणां पाणिनीयव्याकरणापेक्षया किं कियत् कीदृशं च वैशिष्ट्यं जागर्ति इत्येतस्य निदर्शनाय कातन्त्रसूत्ररचना-प्रक्रियाशैलीगतो विषयः कश्चित् संक्षेपेण विमृश्यते - १. ग्रन्थाभिधानकृतं वैशिष्ट्यम् १. कातन्त्रम् कु = ईषद् अल्पं संक्षिप्तं वा, तन्त्रम् = व्याकरणं कातन्त्रम् । ईषदर्थककुशब्दस्य 'का' आदेशः- "का त्वीषदर्थेऽक्षे" (कात० २।५।२५)। तन्त्र्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति तन्त्रम् = व्याकरणम् । एवं कातन्त्रमिति संक्षिप्तव्याकरणाभिधानम् । संक्षेपश्च पाणिनीयव्याकरणापेक्षया पूर्ववर्तिसमस्तव्याकरणापेक्षया वाऽवगन्तव्यः । कार्तिकेयतन्त्रस्य, काशकृत्स्नतन्त्रस्य, कात्यायनतन्त्रस्य, कालापकतन्त्रस्य वा संक्षिप्तं नामधेयं कातन्त्रमित्यपि केचिद् वदन्ति । २. कलापं कालापं कलापकं वा कलाम् = व्याकरणांशम्, संक्षेपम्, अल्पशब्दान् वा पिबति आप्नोति व्याप्नोति अधिकरोति वा कलापम् । तदेव कालापम् । संज्ञायां कनि प्रत्यये सति कलापकम् । बृहत्तन्त्रात् कला आपिबतीति कलापकमिति हेमचन्द्रः । संग्रहार्थकोऽपि कलापशब्दः । तेन बहूनां व्याकरणानां सारसंग्रहात्मकमिदं कलापव्याकरणमाभाति । कलापो मयूरपिच्छम, तत्रैव प्रथमसूत्रस्य लिखितत्वाद् इदं कलापनाम्ना प्रथितं बभूवेत्यपि मन्यते - शङ्करस्य मुखाद् वाणीं श्रुत्वा चैव षडाननः। लिलेख शिखिनः पुच्छे (पिच्छे) कलापमिति कथ्यते ॥ कुमारकार्तिकेयेन कलापस्य मयूरपिच्छस्य मध्याद् उपदिष्टत्वाद् इदं कलापम् । कलापी मयूरः कार्तिकेयवाहनः, स व्याकरणस्यास्य सम्प्रदाने साहाय्यमारचयामासेति कलापमस्य नाम बभूव । ३. कौमारम् कुमार्या सरस्वत्या प्रवर्तित्वात् 'कौमारम्' इति नाम - ब्राह्मया कुमार्या प्रथमं सरस्वत्याप्यधिष्टितम् । अर्हम्पदं संस्मरन्त्या तत्कौमारमधीयते ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 452