________________
कातन्त्रव्याकरणम्
कातन्त्रस्य कानिचिद् वैशिष्ट्यानि
कातन्त्रव्याकरणस्य सन्धिप्रकरणगतसूत्राणां पाणिनीयव्याकरणापेक्षया किं कियत् कीदृशं च वैशिष्ट्यं जागर्ति इत्येतस्य निदर्शनाय कातन्त्रसूत्ररचना-प्रक्रियाशैलीगतो विषयः कश्चित् संक्षेपेण विमृश्यते - १. ग्रन्थाभिधानकृतं वैशिष्ट्यम्
१. कातन्त्रम्
कु = ईषद् अल्पं संक्षिप्तं वा, तन्त्रम् = व्याकरणं कातन्त्रम् । ईषदर्थककुशब्दस्य 'का' आदेशः- "का त्वीषदर्थेऽक्षे" (कात० २।५।२५)। तन्त्र्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति तन्त्रम् = व्याकरणम् । एवं कातन्त्रमिति संक्षिप्तव्याकरणाभिधानम् । संक्षेपश्च पाणिनीयव्याकरणापेक्षया पूर्ववर्तिसमस्तव्याकरणापेक्षया वाऽवगन्तव्यः । कार्तिकेयतन्त्रस्य, काशकृत्स्नतन्त्रस्य, कात्यायनतन्त्रस्य, कालापकतन्त्रस्य वा संक्षिप्तं नामधेयं कातन्त्रमित्यपि केचिद् वदन्ति ।
२. कलापं कालापं कलापकं वा
कलाम् = व्याकरणांशम्, संक्षेपम्, अल्पशब्दान् वा पिबति आप्नोति व्याप्नोति अधिकरोति वा कलापम् । तदेव कालापम् । संज्ञायां कनि प्रत्यये सति कलापकम् । बृहत्तन्त्रात् कला आपिबतीति कलापकमिति हेमचन्द्रः । संग्रहार्थकोऽपि कलापशब्दः । तेन बहूनां व्याकरणानां सारसंग्रहात्मकमिदं कलापव्याकरणमाभाति । कलापो मयूरपिच्छम, तत्रैव प्रथमसूत्रस्य लिखितत्वाद् इदं कलापनाम्ना प्रथितं बभूवेत्यपि मन्यते -
शङ्करस्य मुखाद् वाणीं श्रुत्वा चैव षडाननः।
लिलेख शिखिनः पुच्छे (पिच्छे) कलापमिति कथ्यते ॥ कुमारकार्तिकेयेन कलापस्य मयूरपिच्छस्य मध्याद् उपदिष्टत्वाद् इदं कलापम् । कलापी मयूरः कार्तिकेयवाहनः, स व्याकरणस्यास्य सम्प्रदाने साहाय्यमारचयामासेति कलापमस्य नाम बभूव ।
३. कौमारम् कुमार्या सरस्वत्या प्रवर्तित्वात् 'कौमारम्' इति नाम -
ब्राह्मया कुमार्या प्रथमं सरस्वत्याप्यधिष्टितम् । अर्हम्पदं संस्मरन्त्या तत्कौमारमधीयते ॥