Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 7
________________ [ २ ] माहेन्द्रपरम्परायाः प्रातिनिध्यमाचरति केवलं कातन्त्रम् । माहेशी परम्परा प्रत्याहारप्रधाना शब्दलाघवाख्यानपरा च प्रतिभासते। माहेन्द्री परम्परा च लोकव्यवहारप्रधाना सती अर्थलाघवमाविष्कुरुते । एवं पाणिनीयव्याकरणप्रक्रिया पर्याप्तं विस्तृता दुरूहा च वर्तते । कातन्त्रव्याकरणप्रक्रिया सारल्यं संक्षेपं च वितनुते । ___यथाद्यत्वे पाणिनीयव्याकरणमध्ययनादावधिक्रियते न तथा कातन्त्रम् । परं कदाचिद् भारतदेशस्य सीमान्तप्रदेशेषु श्रीलङ्का-तिब्बत-भूटान-नेपालादिदेशेषु चास्याध्ययनं प्रचलितमासीदित्यैतिह्यग्रन्थानुशीलनेनावगन्तुं शक्यते । नागर-वङ्गभोट-उत्कल-शारदाद्यक्षरमयं विपुलग्रन्थराशिसमधिष्ठितमस्य समृद्धं वाङ्मयमधिगम्य कस्य सचेतसश्चेतो महतीं मुदं नाप्नुयात् । परं हन्त, नाद्यावधि शर्ववर्म-वररुचिप्रणीतस्य चतुर्दशशतसूत्रात्मकस्यास्य कातन्त्रस्य प्राचीनं वृत्तिटीकादिवाङ्मयं यथोचितं मुद्रितमभूत् । वङ्गाक्षरेषु मुद्रितं वाङ्मयं यदिदानी कथञ्चिदुपलभ्यते तदत्यन्तमव्यवस्थितं जीर्णं च दृश्यते । वृत्तिटीकाद्यभावे व्याकरणसूत्राघवगमो नैव कथमपि कर्तुं शक्यत इति विदन्ति धीमन्तः। डॉ०जानकीप्रसादद्विवेदाः पूर्वमस्मिन्नेव विश्वविद्यालये कातन्त्रव्याकरणमधिकृत्य गवेषणापरायणाः सन्तः ‘वाचस्पति' (डी० लिट्०) - शोधोपाधिना सभाजिताः । तदनन्तरमपि यद् विशिष्टं कार्यं तैरत्र कृतं तत् तिब्बतीसंस्थानेन प्रकाशितम् । श्रीद्विवेदिनः कार्येऽस्मिन्निष्ठातिशयं श्रमं विशिष्टाध्ययनं चाकलयन् विश्वविद्यालय एतदीयसम्पादन-प्रकाशनयोजनामङ्गीचकार । तत्र सन्धिप्रकरणात्मके प्रथमे खण्डेऽस्मिन् न केवलं व्याख्याचतुष्टयस्य प्रशस्तं सम्पादनमेव जिज्ञासुजनानामनुसन्धातृविदुषां चातितरामुपकारकमस्ति, किञ्च पाणिनीयादिप्राचीनार्वाचीनव्याकरणैः सह तुलनात्मकमध्ययनमपि विशेषेण मननीयमाभाति । नामचतुष्टयआख्यात-कृत्प्रकरणान्यपि व्याकरणस्यास्य प्रकाशनाधीनानि सन्ति । प्रकीर्णदुरूह-महनीयकार्यस्यास्य सम्पादनाय श्रीद्विवेदिमहोदया अभिनन्दनैः संयोज्यन्ते । आशास्यते च यद् अधिगतयाथातथ्या गुणैकपक्षपातिनो विद्वांसः कार्यादस्मादवश्यं मुदिताः सन्तो लाभान्विताः स्युरिति ।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 452