Book Title: Katantra Vyakaranam Part 01 Author(s): Jankiprasad Dwivedi Publisher: Sampurnanand Sanskrit Vishva Vidyalay View full book textPage 6
________________ प्रस्तावना शब्दानुशासनात्मकम् अथ च रक्षोहागमलघ्वसन्देहप्रयोजनान्वाख्यानपरं व्याकरणशास्त्रं वाङ्मलानां चिकित्सितं सद् शब्दब्रह्माधिगमायालं भवति । एवं श्रूयते यन्महर्षिपतञ्जलिना यथा चित्तगतदोषापनोदाय पादचतुष्टयात्मकं योगशास्त्रम्, किञ्च कायमलापसारणाय चरकाभिधानं वैद्यकशास्त्रं प्रणीतमासीत्, तथैव तेन वाग्दोषविघाताय पदशास्त्रं महनीयं महाभाष्यमपि विरचितम् । यथोक्तम् - योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैयकेन। योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ आर्षे आदिकाव्ये रामायणे ऋष्यमूकपर्वतपरिसरे लक्ष्मणेन सह भिक्षुवेषधारिणो हनूमतो विशदा काचिद् वार्ता समजनि, यामाकर्ण्य श्रीरामस्तदीयां वाचं बहुधा प्रशंसते । वाच प्राशस्त्ये कारणं यत्र ऋग्यजुःसामवेदाद्यध्ययनानुशीलनं समुद्भावितं तत्र बहुविधव्याकरणश्रवणमपि अपशब्दप्रयोगविरहे कारणत्वेनाभिमतम् - नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥ (वा० रा० ४।३।२९) इति । एतेनैषा बुद्धिरास्थेया भवति यन्मितसारवचोरूपवाग्मित्वाधिगमाय व्याकरणमवश्यमध्येतव्यम् । तच्च व्याकरणमष्टधा नवधा च पूर्वकालेऽपि प्रसिद्धमासीत् । साम्प्रतमुपलब्धेषु पाणिनीय-कातन्त्र-चान्द्र-जैनेन्द्र-सारस्वत-सरस्वतीकण्ठाभरण-हैमादिबहुव्याकरणेषु परम्पराद्वयं स्पष्टमवभासते - माहेशी माहेन्द्री च । तत्र माहेशी परम्परामनुसरन्ति पाणिनीयचान्द्रसरस्वतीकण्ठाभरणादीनि व्याकरणानि, परमिदानींPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 452