________________
प्रस्तावना
शब्दानुशासनात्मकम् अथ च रक्षोहागमलघ्वसन्देहप्रयोजनान्वाख्यानपरं व्याकरणशास्त्रं वाङ्मलानां चिकित्सितं सद् शब्दब्रह्माधिगमायालं भवति । एवं श्रूयते यन्महर्षिपतञ्जलिना यथा चित्तगतदोषापनोदाय पादचतुष्टयात्मकं योगशास्त्रम्, किञ्च कायमलापसारणाय चरकाभिधानं वैद्यकशास्त्रं प्रणीतमासीत्, तथैव तेन वाग्दोषविघाताय पदशास्त्रं महनीयं महाभाष्यमपि विरचितम् । यथोक्तम् -
योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैयकेन।
योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ आर्षे आदिकाव्ये रामायणे ऋष्यमूकपर्वतपरिसरे लक्ष्मणेन सह भिक्षुवेषधारिणो हनूमतो विशदा काचिद् वार्ता समजनि, यामाकर्ण्य श्रीरामस्तदीयां वाचं बहुधा प्रशंसते । वाच प्राशस्त्ये कारणं यत्र ऋग्यजुःसामवेदाद्यध्ययनानुशीलनं समुद्भावितं तत्र बहुविधव्याकरणश्रवणमपि अपशब्दप्रयोगविरहे कारणत्वेनाभिमतम् -
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥
(वा० रा० ४।३।२९) इति । एतेनैषा बुद्धिरास्थेया भवति यन्मितसारवचोरूपवाग्मित्वाधिगमाय व्याकरणमवश्यमध्येतव्यम् । तच्च व्याकरणमष्टधा नवधा च पूर्वकालेऽपि प्रसिद्धमासीत् । साम्प्रतमुपलब्धेषु पाणिनीय-कातन्त्र-चान्द्र-जैनेन्द्र-सारस्वत-सरस्वतीकण्ठाभरण-हैमादिबहुव्याकरणेषु परम्पराद्वयं स्पष्टमवभासते - माहेशी माहेन्द्री च । तत्र माहेशी परम्परामनुसरन्ति पाणिनीयचान्द्रसरस्वतीकण्ठाभरणादीनि व्याकरणानि, परमिदानीं