Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 12
________________ ( ८ ) करणकुतूहलम् । लब्धेन भगणस्थाने युतः - ४३७ एवं राश्यादिः १।१।३१।४ लङ्कायां सूर्योदये मध्यमो रविरयमेव बुधः शुक्रश्व ज्ञेयः एषा परिपाटी सर्वत्र ग्रहानयने ज्ञेया । अथ गणितोपयुक्तमङ्कशोधनं यथोक्तं बीजदत्तै:- “गुण्ये गुणे नवहते परिशेषघाते नन्दै ९ हृते भवति यः परिशेषराशिः ॥ घातेन गुण्यगुणयोर्नवशेषितेन साम्येन तस्य निगदेगणितस्य शुद्धिम् " ॥ १ ॥ यथा गुण्योऽहर्गणः १५९३१६ नवभक्ते शेषं ७ गुणकः १३ नवभक्ते शेषम् ४ उभयोः शेषयोः ७।४ हतिः - नवहृतः शेषम् १ अथ गुणिताङ्कः २०७११०८ नवभक्ते शेषम् १ उभयोः साम्ये गुणितोऽङ्कः २०७११०८ शुद्ध एवं सर्वत्र अथ भागहारशोधनं पाटीगणिते प्रोक्तं "हारात्या नवशेषस्तद्यत्तेनाढ्यशेषनवशेषः । भाज्याङ्को नवशेषस्तुल्यः स्यात्तदा शुद्धः” इति । भाज्ये नवभिर्हृते यच्छिष्टं तदेवाप्तिः भाजकयोर्नवभिः शेषितयोर्मिथो वधेन युक्तस्य शेषस्य नवभागे शेषे तत्तुल्यं स्यात्तदावातञ्च शेषशुद्धम् । यथा भाज्ये २०७११०८ नवभक्ते शेषम् १ भाजकेऽपि ९०३ नवभक्ते शेषम् ३ लब्धमपि २२९३ नवभक्ते शेषम् ७ भाजकशेषयोर्घा ते २१ शेषम् ५२९ युतम् ५५० नवभक्तं शेषं, पूर्वशेषेण १ तुल्यं ततो लब्धम् २२९३ शेषञ्च ५२९ शुद्धमेव सर्वत्रापि प्रायशः सूर्यभगणानां गताब्दानां च साम्यं कदाचिदनन्तरम् ॥ ७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 160