Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 16
________________ प्रतिपत्तिशून्यं हतहृदयम्, येनान्तःप्रविष्टोऽपि न पारितो धारयितुम् । तदेव चैतच्छरीरं येन तत्समीपे चिरमुदासीनेन स्थितम् । स एव चायं पाणिः, योऽलीकगुरुजनापेक्षी नात्मानं परिग्राहितवान् । अनपेक्षितपरपीडश्चन्द्रापीडोऽपि स एव, योऽत्र वारद्वयमागत्य प्रतिगतः । मय्येवोपक्षीणमार्गणतया वाकिंचित्करोऽन्यत्र पञ्चशरोऽपि स एव, यस्त्वयावेदितो मे। प्रतिज्ञातं च मया महाश्वेतायाः 'त्वयि दुःखितायां नाहमात्मनः पाणिं ग्राहयिष्यामि' इति । तामहं पुनरप्यवदम् । सा तु 'देवि, मैवं स्म मनसि करोः । कुमतिरियम् । अतिदारुणोऽयं पापकारी मकरकेतुः कदाचिददृश्यमाने प्रियजने जनितहृदयानुरागाज्जीवितमप्यपहरति' इत्यब्रवीत् । तदपि नास्त्येव मे । मदनेन वा, देवेन वा, विरहेण वा, यौवने वा, - *********** रर्थे । इदं प्रत्यक्षं तदेव हतहृदयं दैवेन हतं ताडितं हृदयं चेतः । कीदृशम् । अप्रतिपत्तिरज्ञानं तेन शून्यम् । तत्किम् । येन हृदयेनान्तःप्रविष्टोऽपि मध्यगतोऽपि धारयितुं ग्रहीतुं न पारितः । च पुनरर्थे । एतच्छरीरं तदेव । तत्किम् । येन शरीरेण तत्समीपे चन्द्रापीडसंनिधौ चिरं बहुकालमुंदासीनेन तटस्थेन स्थितम् । स एवायं पाणिर्हस्तः । स कः । योऽलीकोऽसत्यो गुरुजनो मातृपित्रादिस्तमपेक्षते इत्येवंशीलः स तथात्मानं स न परिग्राहितवान् । अनपेक्षिता परस्य अर्थान्मम पीडा येनैवंविधश्चन्द्रापीडोऽपि स एव नान्यः । स कः । योऽत्र मत्पार्थे वारद्वयं द्विवारमागत्यागमनं कृत्वा प्रतिगतो निवृत्तः । मय्येव मयि विषय एव । नान्यत्रेत्यर्थः । उपक्षीणा नष्टा मार्गणा बाणाः शरा यस्य स उपक्षीणमार्गणस्तस्य भावस्तत्ता तया । वाशब्द इवार्थे । तथा चोपक्षीणमार्गणतया इव । अन्यत्र चन्द्रापीडादौ न किंचिद्दुःखादिक करोतीत्यकिंचित्करः पञ्चशरोऽपि कामोऽपि स एव । स कः । यस्त्वया सख्या मे ममावेदितस्तत्स्वरूपज्ञापनपूर्वकं निवेदितः । महाश्वेताया मयेदं प्रतिज्ञातं च पुनरहं तां महाश्वेतामित्यवदमवादिषम् । इतीति किम् । तदेवाह - प्रतिज्ञातमिति । अङ्गीकृतं च । तदेव दर्शयन्नाह - त्वयीति । त्वयि महाश्वेतायां दुःखितायां नाहं कादम्बर्यात्मनः स्वपाणिं करं ग्राहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । सौ तु महाश्वेतेत्यब्रवीत् । इतीति किम् । हे देवि, एवं मनसि चित्ते त्वं माकरोर्मा कार्षीः । 'मेऽटि' इत्यटो लोपः । तदकरणे हेतुं प्रदर्शयन्नाह - कुमतिरिति । कुत्सिता मतिः कुमतिरियं न सम्यग्बुद्धिः । कथमित्याह - अतीति । अयं पापकार्यधर्मजनको मकरकेतुः कंदर्पोऽतिदारुणोऽतितरां भीषणः कदाचिन्न सर्वदा दृश्यमानेऽवलोक्यमाने प्रियजने वल्लभजने जनितहृदयानुरागादुत्पादितमानसिकस्नेहाज्जीवितमपि जीवनमप्यपहरत्यपाकरोति । प्रियजनस्यादृश्यमानत्वं नास्तीत्याशङ्कयाह - तदपीति । तदपि प्रियजनादृश्यमानत्वं मे मम नास्त्येव न विद्यत एव । एतदेव स्पष्टीकुर्वन्नाह - दैवेनेत्यादि । मदनेन वा, कंदर्पण वा, देवेनादृष्टेन वा । विरहेण वियोगेन वा, यौवनेन तारुण्येव वा, अनुरागेन स्नेहेन वा, - टिप्प० - 1 'किंचाधुनाप्यधिकमुपयातम्' इत्यारभ्य एतावत्पर्यन्तस्य - 'न किञ्चिनवीनं जातम् । अहं कुमारादि च सर्वं तदेव । किञ्च महाश्वेतासविधे प्रतिज्ञावशाद्विवाहेऽप्यहं विवशा । अत एव कुमारागमनेन किं मे' इति प्रणयकोपसूचने तात्पर्यम् । 2 'हरति । एतावत्पर्यन्ता पत्रलेखाया उक्तिः । एतदग्रे 'सा तु अब्रवीत् इति पाठः । ततश्च ‘सा तु अब्रवीत् 'एतदने 'तदपि नास्त्येव मे एतदारभ्य 'तदानयनकथया' इति कादम्बयुक्तिः । 3 न हि सेयं महाश्वेताया उक्तिः । सा किल देवीति न तां संबोधयेत् । “तामहं पुनरप्यवदम्-'देवि'-" इत्यादिका पत्रलेखाया उक्तिः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ चिरतत्समीपेऽपि. २ उदासीनं स्थितम्. ३ अलीकगुरुजनापेक्षणात्. ४ इति । सा तु. ५ मैतन्मनस्यकरो. ६ जनितहृदयानुरागः, हृदयानुरागात्. ७ हरति. ८ एतदपि. कादम्बर्याः सदेशश्रवणम् उत्तरभागः ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 246