Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 15
________________ चदलारविन्दनिस्यन्दसुगन्धमन्दगन्धवाहानन्दितदशदिशि प्रदोषसमये, विकसितकुसुमामोदमुकुलितमानिनीमानग्रहोन्मोचनहस्ते कुसुमायुधे, कर्पूरविशदकरनिकरनिर्भरावर्जितज्योत्स्नाजलासारवर्षिणि चन्द्रमसि, दूरविक्षिप्तदलनिवहकुमुदकाननामोदवासितदिगन्तायाः कुमुदिन्यास्तटे, चन्द्रकरस्पर्शप्रवृत्तशशिमणिशिखरनिर्झरझंकारिणि क्रीडापर्वतनितम्बके, हृद्यहरिचन्दनरसकणिकाजालकच्छलेन तत्करतलस्पर्शसुखसंभवस्वेदजलनिवहमिव वहति तत्कालहारिणि मुक्ताशिलापट्टशयने, कुसुमामोदसुरभितदशदिशि तुषारकणनिकरहोरिण्यपि बहिरेव देहँदाहमात्रकायहारिणि सर्वरमणीयानां संदोहभूते हिमगृहे कुसुमसस्तरावलम्बिनी वीक्षिता । ममापि चोपुनरुक्ततद्दर्शनस्पृहे ते एवैते लोचने, ययोरालोकनपथमसौ यातः । तदेव चेदम - *********** पत्राणि येषामेवंविधानि यान्यरविन्दानि कमलानि तेषां निस्यन्दो रसो यस्मिन्नेवंभूतः सुगन्धः सुपरिमलो मन्दो मृदुर्यो गन्धवाहो वायुस्तेनानन्दिता वासिता दश दिशो यस्मिन् । सर्वाणीति । सर्वाणि समग्राणि यानि रमणीयानि मनोहराणि तेषां संदोहो दोहनं तस्माद्भूते निष्पन्ने तस्मिन् । पुनः कस्मिन्सति । कुसुमायुधे कंदर्प सति । कीदृशे । विकसितानां विनिद्राणां कुसुमानां पुष्पाणामामोदः परिमलस्तेन करणभूतेन मुकुलित एकीभूतो यो मानिनीनां मनस्विनीनां मानग्रहोऽहंकारग्रन्थिस्तस्योन्मोचनं दूरीकरणं तस्मिन्हस्त इव हस्तस्तस्मिन् । पुनः कस्मिन्सति । चन्द्रमसि शशिनि सति । कीदृशे । कर्पूरी हिमवालुका तद्वद्विशदो निर्मलो यः करनिकरः किरणसमूहस्तेन निर्भरं यथा स्यात्तथाऽऽवर्जिता मुक्ता या ज्योत्स्ना चन्द्रिका सैव जलासारोऽम्भसां कणस्तं वर्षतीत्येवंशीलस्तस्मिन् । 'आसारोऽम्भसां कणः' इत्यभिधानाज्जलपदं पुनरुक्तम् । तच्चादोषाय, शाब्दपुनरुक्तित्वात् । तदुक्तं वृद्धकविभिः - 'द्विरदबृहितकरिकलभाश्चहेषाकरकङ्कणकरिहस्ते-. त्यादौ पुनरुक्तेरदोषत्वम् । कथंभूतायाः कुमुदिन्याः । दूरं विक्षिप्तो दलनिवहः पत्रसमूहो यैरेवंविधानि यानि कुमुदकाननानि कैरववनानि तेषामामोदः परिमलस्तेन वासिताः सुगन्धं प्रापिता दिगन्ता यया सा तस्याः । पुनः कस्मिन्सति । क्रीडार्थं पर्वतः शैलस्तस्य नितम्बके कटके सति । 'मेखला मध्यभागोऽद्रेनितम्बः कटकश्च सः' इति हैमः । कीदृशे नितम्बे । चन्द्रकराणां स्पर्शस्तेन प्रवृत्तः प्रवृद्धो यः शशिमणिशिखरनिरिश्चन्द्रकान्तसानुझरस्तस्य झंकारो विद्यते यस्मिन्स तथा तस्मिन् । कीदृशे मुक्ताशिलापट्टशयने । हृद्य मनोहरं यद्धरिचन्दनं तस्य रसस्य कणिकाः सूक्ष्माः कणास्तासां जालकानि तेषां छलं मिषं तेन । तस्य चन्द्रापीडस्य करस्तस्य तलस्तस्य स्पर्शस्तस्मात्सुखं सातं तस्मात्संभवा समुत्पत्तिर्यस्यैवंभूतो यः स्वेदजलनिवहस्तमिव वहतीति वहनं तत्तस्मिन् । एतेन सात्त्विकभावः सूचितः पुनः कीदृशे शिलापट्टके । तत्कालं सद्यो हरत्याकर्षति जनानां चेत इत्येवंशीलः स तथा तस्मिन् । पुनः किंविशिष्टे । कुसुमानां पुष्याणामामोदः परिमलस्तेन सुरभिता सुगन्धीकृता दशदिशो येन तत्तथा तस्मिन् । कीदृशे हिमगृहे । तुषारकणा हिमविपुषस्तेषां निकरण समूहेन हारिण्यपि मनोहरत्वेऽपि बहिरेव बाह्यवृत्त्या देहदाहमात्रेण केवलं शरीरदाहज्वरोत्पादकत्वेन कायं देहं हरतीत्येवंशीलं तत्तथा तस्मिन् । यच्छीतलं तत्कथं दाहकमिति विरोधः । विरहित्वेन तत्परिहारः । अत एव विरोधाभासोऽलंकारः । ममापि च कादम्बर्या अप्यपुनरुक्ता प्रथमा तस्य चन्द्रापीडस्य दर्शनस्पृहावलोकनेच्छा ययोस्त एवैते लोचने नेत्रे । यत्तदोर्नित्याभिसंबन्धात् । ते के । ययोर्नेत्रयोरालोकनपथं विलोकनमार्गमसौ चन्द्रापीडो यातः प्राप्तः । च पुन - पाठा० - १ वृन्दनिष्यन्दानन्दितमन्दगन्धवहसुगन्धदशदिशि विकसितविविधकुसुमामोदमुकुलितमानिनीमानग्रहोन्मोचनदक्षकुसुमायुधि कर्पूरक्षोदमिश्रचन्दनपङ्कपिण्डे कुपितकामिनीविनोददक्षगेयमुखरपरिजने पुनरुक्तदर्शनाभ्युत्थानव्रीडितकञ्चुकिजने प्रदोषसमये जरठशरकाण्डविपाण्डुनिबिडकुण्डलोदृष्टलडहयुवतिगण्डस्थलान्यखण्डमण्डले मण्डयति गगनचानवरतविस्फुरद्विशदकरनिर्भरावर्जितज्योत्स्नाजलसारवर्षिणि चन्द्रमसि. २ पर्वतकनितम्बे. ३ नीहारिण्यपि. ४ दाहमात्रकापहारिणि. ५ पुनरुक्त. ६ आलोचन. 488 1 कादम्बरी । कथायाम्

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 246