Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 13
________________ सर्पति । स्वयमुपसर्पणलघु लाघवमेव तत्प्रतिपत्तिस्थैर्यं नावलम्बते । बलात्तदानयनापराधभीता भीतिरेव न संमुखीभवति । अथ कथंचिद्गुरुजनत्रपया वा, राजकार्यानुरोधेन वा, - *********** स्थातुमसमर्थया त्वया मयैव सह कुतो नागम्यत इति मयोदिते सैवमाहेत्याह - स्वयमिति । स्वयमुपसर्पणं तदननुमत्या स्वयं गमनं तेन लघु लाघवमेव तुच्छलाघवमेव तत्प्रतिपत्तिस्त्वयैवागन्तव्यमित्युपदेशज्ञानं तत्स्थैर्य तत्स्थिरतां नावलम्बते । नावलम्बनं करोतीत्यर्थः । अन्यत्र ज्ञानस्य विक्षणावस्थायित्वेऽपि युक्त्यनुपष्टम्भोपहितमिदं ज्ञानं क्षणमात्रमपि न तिष्ठतीति भावः । स्त्रीणां स्वयमुपसर्पणं लघुतापादकं नितरामननुमत्या कृतं नितरां राजकन्यानाम् । किंचैवमौत्सुक्यातिरेकेण कृतेऽपि तेनापि मदीयां निःसारतामाकलय्य विद्याधनसौन्दर्यादिगर्वेणानादरे कृते तव का प्रतिष्ठा, ममापि किं गौरवम्, तदुत्तरकालं च प्रयत्नाभावेन मम मरणमेव शरणं स्यादिति तुषकण्डनमेव फलितमिति शब्दशक्त्युद्भवो ध्वनिः । इह तु वर्तमान एव लट् । तेन पूर्वोत्तरावधिशून्यता प्रत्यक्षप्रमाणगोचरतां च व्यनक्ति । यद्वा स्वयमुपसर्पणं स्वयं गमनं तेन लघुस्तूलादपि निःसाराहं तस्या मे लाघवमेव लघुभावमेव । दृष्ट्रेति शेषः । तत्प्रतिपत्तिस्तस्य चन्द्रापीडस्य प्रतिपत्तिर्मयि सर्वोत्कृष्टताबुद्धिः स्थैर्य स्थिरत्वं नावलम्बते । न स्थिरतां यास्यतीत्यर्थः । अस्मिन्पक्षे भविष्यदर्थ एव लट् । तेन फलितमिदं भविष्यतीति ध्वन्यते । ननु तर्हि मयैव यथाकथंचिदयमानेय इति मयोदिते सैवमाहेत्याह - बलेति । बलात्तदरुच्या यत्तदानयनं त्वत्कृतं चन्द्रापीडानयनं स एवापराधस्तेन भीताया मे भीतिरेव न संमुखीभवति । एतदनुमोदनसांमुख्यं न करोतीत्यर्थः । इदमपि मया कथं वक्तव्यं त्वयानेय इति कदाचित्त्वया मदीयां दशामालोक्य पादपतनादिना बलादानीतस्य तथैव स्थितस्य मदपराधं गृह्णतोऽसन्मुखस्यानयनफलालाभेन लोकोपहास्यता परितापाधिक्यं च मे भवेदिति भावः । तस्मादेते सर्व एव पक्षाः प्रकृतानुपयुक्तत्वादनादरणीयाः । केवलं मनोवाकायकर्मभिस्तत्स्वीकार एव मय्यनुग्रहो गतागतेन च तदभावनिश्चयात्त्वया तथा यतनीयं मदनुग्रहे विलम्बालस्योपेक्षास्तस्य न भवन्ति । भवत्याच मत्प्राणत्राणसुकृतादिहलोकः परलोकश्च भवेत् । सख्यादीनामुपहासपात्रतां न यायाम, जन्मसाफल्यं च यायां मित्रादिपारवश्यतां च न लभेयम् । गौरवसंरक्षणं भवेत् । नान्यं शरणमुपयायामित्याद्यत्यन्ततिरस्कृतवाच्याभिधाभिन्नमूलध्वनिः । तेन च प्रबन्धस्योत्तमता सूचिता । तेन चालौकिकरसास्वादनसामग्रीदाढ्यं च सूचितम् । अत्र सर्वत्र काव्यलिङ्गं विभावना चालंकारः । यद्वा भीतिरेव बलात्संमुखीभवतीति संबन्धः । एतत्प्राप्तौ पित्रादिभ्यो भयं त्यक्तमित्यर्थः । भीतिप्राप्तौ हेतुमाह - बलादिति । बलादरुच्या तदानयन चन्द्रापीडानयनं स एवापराधो महासाहसिकत्वादिरूपस्तत्र भीता । भयहेतूनुत्प्रेक्षमाणेत्यर्थः । तथा चोटोक्षाया आरोपविषयत्वेनाहार्यभीतेरङगीकारादिति भावः । पर्वोक्तं सर्वमप्यन्यथयन्त्याह - अथेति । अथशब्दः पर्वापरितोषे इति प्रकरणालभ्यते । मयि मद्विषये स्नेहाम्णो हेतोः । हेतौ पञ्चमी । कृता विहिता यत्ना आनयनोपाया यया सा तया । प्रिया प्रियकर्ची चासौ सखी चेति तया पत्रलेखयापि यदा यद्यानेतुमानयनाय न पारितो न शक्तः, तदा तर्हि सुतरामेवातिशयेनैव न किंचित् लघुतोत्कर्षः । तद मम जीवितेन न किंचित्प्रयोजनमिति भावः । आनयनप्रकारमाह - पादपतनेनापीति । करणे तृतीया । पादयोश्चरणयोः पतनेन । दण्डवत्प्रणामेनापीत्यर्थः । आनयनाशक्तौ पूर्वपूर्वापरितोषेण तृतीयान्तान्हेतूनाह - कथंचिदिति । एतत्पदं सर्वतृतीयान्तेन संबध्यते । गुरुजनाः पितृमातृप्रभृतयस्तेषां त्रपा लज्जा तया - - - - - - - - - - - - - - - टिप्प० -1 'अथ' इति पक्षान्तरात्पूर्वम्, पत्रलेखाद्वारक - कादम्बरीसदेशेऽस्मिन् - यदि कुमारोऽत्रानीतस्तर्हि लज्जा - वैलक्ष्य - जडतादिभिस्तत्सामुख्य न भविष्यतीति सर्वस्य तात्पर्यम् । तरलतया (चापल्येन) लज्जिता लज्जैव दर्शनं न ददाति (अन्तर्भावितण्यर्थः), लज्जापि लज्जिता जाता, अत एव सा कुमारस्य दर्शनं मे न दापयतीति वाक्यस्यार्थः । भविष्यत्सामीप्ये लट् । एवमेव - मनोभववेदनया विलक्षम् (अप्रतिभम्) वैलक्ष्यमेव (अप्रतिभत्वमेव) अग्रतो न तिष्ठति (अयमप्यन्तर्भावितण्यर्थः), वैलक्ष्यमेव मामग्रतो न स्थापयति, न स्थातुमवसरं ददातीत्यर्थः । जडतैव नोपसर्पति, नोपसर्पयतीत्येवंरूपेण सर्ववाक्येषु ण्यर्थमन्तर्भाव्य वाक्यार्थः परिकल्प्यते । - - - - - - 486 कादम्बरी। कथायामू

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 246