Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 14
________________ चिरावलोकितसहसंवर्धितबन्धुजनोत्कण्ठया वा, सुहृन्मुखकमलदर्शनेन वा, पुनरागमनखेदपरिजिहीर्षया वा, निजगृहावस्थानरुच्या वा, जन्मभूमिस्नेहेन वा, अनिच्छया वास्य जनस्योपरि पादपतनेनापि नानेतुमेव पारितो यदा मयि स्नेहात्कृतयत्नयापि प्रियसख्या पत्रलेखया तदासुतरामेव न किंचित् । किं चाधुनाप्यधिकमुपजातम् । सैवाह कादम्बरी याऽनेन कुमारेण मत्तमदमुखरमधुकरकुलकलकोलाहलाकुलिते कोककामिनीकरुणजिते विरहिजनमनोदुःखे विक - *********** वा । वाशब्दः पूर्वापरितोषे । राजकार्यं संधिविग्रहादि तस्यानुरोधोऽनुसरणं तेन वा । चिरेण बहुकालेनावलोकितो दृष्टो यः सहसंवर्धितः पांसुक्रीडनादिभिः सहवृद्धि प्रापितो बन्धुजनो बान्धवलोकस्तस्योत्कण्ठया विरहासहनेन वा । सुहृदो मित्राणि । 'सुहृदुईदौ मित्रामित्रयोः इति निपातः । तेषां मुखानि कमलानीवेत्युपमितसमासः । तेषां दर्शनेन सादरावलोकनेन वा । पुनरागमनं पुनरत्रागमः तेन यः खेद आयासस्तस्य परिहर्तुमिच्छा त्यागस्पृहा तयेति वा । पुनरपि यातायातश्रमो मा भूदितिविधयेत्यर्थः । निजं स्वकीयं यद्गृहं तत्रावस्थानं सुखवासस्तत्र रुचिः प्रीतिस्तयेति वा । जन्मभूमिर्जन्मस्थानं तत्र स्नेहः प्रेमा तेन वा । सर्वमेतत्संभावनामात्रेणोक्तम् । वस्तुतस्त्वस्य मल्लक्षणस्य जनस्य जन्तुमात्रस्योपर्यनिच्छाऽरुचिः । अप्रीतिरिति यावत् । तया वा । किंचेति पक्षान्तरे । सैवाह कादम्बरी यानेन कुमारेण चन्द्रापीडेन । कुमुदानि विद्यन्ते यस्यां सा कुमुदिनी तस्याः कुमुदिन्याश्चतुरसजलक्रीडासरस्याः । पुष्करिण्या इति यावत् । तटे तीरे । सामीप्ये सप्तमी । हिमप्रचुरं गृहं हिमगृह तस्मिन्मुक्तावनिर्मलो मुक्ताखचितो वा यः शिलायाः पट्टः स एव शयनं शय्या तस्मिन्कुसुमानां सस्तरस्तमवलम्बत इत्येवंशीला तन्मात्रावलम्बिनी वीक्षिता दृष्टा । अधुना किमधिकमुपजातम् । इतः सप्तम्यन्तानि हिमगृहविशेषणानि - मत्तेति । मत्ताः क्षीबा अत एव मदेन मुखरा वाचाला ये मधुकरा भ्रमरास्तेषां कुलानि सजातीयवृन्दानि तेषां कलो मनोज्ञो यः कोलाहलः कलकलस्तेनाकुलिते व्याप्ते । कोकेति । कोकाचक्रवाकास्तेषां कामिन्यो योषितस्तासां करुणानि दीनानि कूजितानि विरुतानि यस्मिन् । कीदृशे कूजिते । विरहीति । विरहिण्यश्च विरहिणश्चैकशेषे विरहिणस्तेषां जनः समुदायः । विरहिणश्च ते जनाश्चेति वा । तेषां मनसि स्वान्त उत्पादितं दुःखं येन तस्मिन् । विकचेति । विकचानि विकस्वराणि दलानि - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अथेत्यारभ्य 'न किञ्चित् पर्यन्तस्य 'यदि गुरुजनवपादिकारणैः कुमारो नानेतुं शक्येत तदापि न हानिः, मम जीवितमेव न रक्षणीयम् । किं तदा कुमारस्याऽनागमेन मे इत्याशयः । 2 तस्मात् 'जनितविरहिजनमनोदुःखे' इत्युरीकर्तव्यः पाठः । किञ्च - ‘मत्तमदमुखरमधुकर०' इत्यारभ्य 'वीक्षिता' एतावत्पर्यन्ते मूले भूयान् पाठभेदः, न किल बाणस्य पुत्रोपि 'मत्त' इत्युक्तौ पुनः 'मदमुखर' इति विशेषणं प्रयुञ्जीत । 'मधुमदमुखर' इति हि तत्र पाठः । एवं स्थाने स्थाने । भूयानंशः पाठान्तरेषु धृतः । पाठा० - १ चिरावलोकितबन्धुजनदर्शनोत्कण्ठया वा. पुनरागमनचिरावलोकितसहसंवर्धितबन्धुजनदर्शनमुखेन वा सुहन्मुखकमलावलोकनोत्कण्टया वा. २ स्वजनस्य. ३ महास्नेहान्मदलेखया पादपतनेनापि गच्छन्. ४ अनुनेतुम्. ५ पारितः कृतयत्नयापि प्रियसख्या तदा. ६ अभ्यधिकम्. ७ उपयातम्. ८ मधुमद. ९ कुलकोलाहलाकुलित. १० कूजितजनित; कूजितेन जनित. कादम्बर्याः संदेशः उत्तरभागः । 487

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 246