________________
* जिनसहस्रनाम टीका - २९१
एकादशमोऽध्यायः (उपसंहार : )
धानांपते तवामूनि नामान्यागमकोविदैः । समुच्चितान्यनुध्यायन्पुमान्पूतस्मृतिर्भवेत् ॥ १ ॥
टीका : थानांपतेः = धाम्नां तेजसां पतिः स्वामी धाम्नांपतिः सम्बोधने हे धाम्नांपते वृषभदेव, तव स्वामिन् अमूनि प्रत्यक्षीभूतानि नामानि श्रीमान् स्वयंभूर्वृषभादीनि । आगमकोविदैः = आगमे सिद्धांते कोविदाः विद्वांसः तैरागमकोविदैः, समुच्चितानि = एकत्री - कृतानि अनुध्यायन चिन्तयन् अर्धपूर्वकं विचारयन् पुमान् रत्नत्रयधारको भव्यपुरुषः । पूतस्मृतिः = पूता पवित्रा स्मृति: स्मरणं यस्येति पूत - स्मृतिः पवित्रज्ञानी भवेत् स्यादित्यर्थः " कोट्यवधि चन्द्रसूर्यो के तेजोवलय से भी अधिक तेजोमण्डल के स्वामिन् हे वृषभ जिनेश, जैनागम चतुर विद्वज्जनों ने आपके नामों का यह संग्रह किया है; जो पुरुष इनका बारबार चिन्तन करेगा वह रत्नत्रय धारी होकर पवित्र स्मृतिवाला पवित्र ज्ञानी होगा ॥ १ ॥
गोचरोऽपि गिरामासां त्वमवाग्गोचरो मतः ।
स्तोता तथाप्यसंदिग्धं त्वत्तोऽभीष्टफलं भजेत् ॥ २ ॥
टीका - गोचरोऽपि = गम्योऽपि, कासां आसां गिरां वाणीनामपि त्वं भवान्, अवाग्गोचरः न वाचां गोचरः अवाग्गोचर:, मतः कथित: स्तोतास्तुतिकर्ता तथापि तथैवासंदिग्धं निःसंदेहं यथा भवति तथा त्वत्तः त्वत् सकाशात् अभीष्टं मनोभीष्टं फलं स्वर्गमोक्षलक्षणं, भजेत् भजतीत्यर्थ ॥ २ ॥
1
अर्थ : हे प्रभो, आप इन सहस्रनामों के वचनों का विषय होकर भी यथार्थतया देखा जाय तो आप वचनों के अविषय हैं क्योंकि आप में अनन्तगुण प्रकट हुए हैं, अतः वे गुण वचनों के विषय नहीं होते हैं तो भी आपकी स्तुति करने वाला व्यक्ति आपसे निःसंशय अभीष्ट स्वर्गमोक्षात्मक फल को प्राप्त कर लेता है ॥२॥
त्वमतोऽसि जगबंधुः त्वमतोऽसि जगद्भिषक् । त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः ॥ ३ ॥