________________
# जिनसहस्रनाम टीका- २३३
जगत् के पदार्थों को एक साथ जानता है- ऐसी अविनाशी परमज्योति निरंतर जयवन्त रहे। ऐसी केवलज्ञान रूपी ज्योति के धारक आपको नमस्कार हो ।
पापरूपी अन्धकार से रहित (वा अज्ञान रूपी अन्धकार से रहित ) परम तेज को प्राप्त है अतः पारेतमः प्राप्तधाम्ने आपके लिए नमस्कार हो ।
जितने भी पर (अन्य ) दर्शन या देव हैं उनसे आप सर्वोत्कृष्ट हैं, महान् हैं अतः परतरात्मन् ! आपके लिए नमस्कार हो। सर्वोत्कृष्ट स्वरूप को प्राप्त भगवन् आपको नमस्कार हो ।
नमः क्षीणकलंकाय क्षीणबंध नमोऽस्तु ते ।
नमस्ते क्षीणमोहाय क्षीणदोषाय ते नमः ॥ २४ ॥
"
टीका नमः क्षीणकलंकाय - क्षीणो निर्गतः कलंकोऽपवादो यस्येति स क्षीणकलंकः । यथा गोपनाथस्य दुहितरं नारायणो जगाम संतनोः कलत्रं ईश्वरोऽगमत् देवराजो गोतमभार्यां बुभुजे तदुक्तम् -
-
किमकुवलयनेत्राः संति नो नाकनार्यः,
त्रिदशपतिरहल्यां तापसीं यत्सिषेवे ! हृदयतृणकुटीरे दह्यमाने स्मराग्नाबुचितमनुचितं वा वेत्ति कः पंडितो वा ॥
चंद्रः किल वृहस्पतिभार्यां व्यभिचचार, तदुक्तम्विधुर्गुरोः कलत्रेण गौतमस्यामरेश्वरः ।
संतनोश्चापि दुश्चर्मा समस्त पुरा किल ॥
एवं सर्वेपि देवाः सकलंका: सति, सर्वज्ञवीतरागस्तु निष्कलंकः । पुनः ते क्षीणबन्ध - क्षीणः क्षयंगतो बन्धः कर्मबन्धनं यस्येति स क्षीणबन्धः । तस्यामंत्रणे हे क्षीणबन्ध, ते तुभ्यं नमोऽस्तु । पुनः नमस्ते क्षीणमोहाय ते तुभ्यं नमः कस्मै क्षीणमोहाय क्षीणः क्षयंगतो मोहोऽज्ञानं यस्मादिति क्षीणमोहः तस्मै क्षीणमोहाय । पुनः क्षीणदोषाय नमः ते तुभ्यं नमः कस्मै क्षीणदोषाय, क्षीणाः क्षयंगताः पंचविंशतिर्दोषा, यस्य स क्षीणदोषः तस्मै क्षीणदोषाय, पंचविंशतिः के दोषा: