Book Title: Jinsahastranamstotram
Author(s): Jinsenacharya, Pramila Jain
Publisher: Digambar Jain Madhyalok Shodh Sansthan

View full book text
Previous | Next

Page 272
________________ * जिनसहस्रनाम टीका - 256 * 卐 अथप्रशस्तिलिख्यते सद्वृत्ताः खलु यत्रलोकमहिता मुक्ता भवन्ति श्रिये, रत्नानामपि लब्धये सुकृतिनो यं सर्वदोपासते। सद्धर्मामृतपूरपुष्टसुमनः स्याद्वादचन्द्रोदया, काङ्क्षीसोऽत्रसनातनो विजयते श्रीमूलसंघोदधिः / / 1 / / आसाद्य द्युसदा सहायमसमं गत्वा विदेहं जवादद्राक्षीत्किल केवलेक्षणमिनं योऽत्यक्षमध्यक्षतः, स्वामी साम्यपदाधिरूढधिषण: श्रीनन्दिसंघश्रियो, मान्यः सोऽस्तु शिवाय शान्तमनसां श्रीकुन्दकुन्दाभिधः॥२॥ श्रीपद्मनन्दिविद्वन् विख्याता त्रिभुवनेऽपि कीर्तिस्ते। हारति हीरति हंसति हरति हरोत्तंसमनुहरति // 3 // श्रीपद्यनन्दि परमात्मपदः पवित्रो, देवेन्द्रकीर्तिरथसाधुजनाभिवन्द्यः / विद्यादिनन्दिवरसूरिरनल्पबोधः, श्रीमल्लिभूषण इतोस्तु च मंगलं नः / / 4 / / प्रायो व्याकरणं येन धातुः पाठेऽवतारितम्। स जीयात् शब्दमाणिक्यनिवासः श्रुतसागरः॥५॥ मल्लिभूषणशिष्येण भारत्यानन्दनेन च सहस्रनामटीकेयं रचितामरकीर्तिना / / 6 / / - / or or md इति श्रीजिनसहस्रनाम टीका समाप्ता सम्पूर्णीकृता / 1 तास, or 8.

Loading...

Page Navigation
1 ... 270 271 272