Book Title: Jinsahastranamstotram
Author(s): Jinsenacharya, Pramila Jain
Publisher: Digambar Jain Madhyalok Shodh Sansthan

View full book text
Previous | Next

Page 262
________________ # जिनसहस्रनाम टीका - २४६ * मुतकृष्टं विज्ञानं यस्य स परमविज्ञानः तस्य संबोधने हे परमविज्ञान अथवा विज्ञानस्येदं लक्षणं - विवर्णं विरसं विद्धमसात्म्यं प्रभृतं च यत् । मुनिभ्योऽन्नं न तद्देयं यच्च भुक्तं गदावहम् ।। उच्छिष्ट नीच लोकार्ह मन्योद्दिष्टं विगर्हित । न देय दुर्जनस्पृष्टं देवयक्षादिकल्पितम् ।। ग्रामान्तरात्समानीतं मंत्रानीतमुपायनम्, न देयमापणक्रीत विरुद्धं वायातर्तुक। दधिसर्पि:पयोऽभक्ष्यप्राय: पर्युषितं मतम्, गंधवर्णरसभ्रष्टमन्यत्सर्वं विनिंदितम् ।। स्ताब्ध्यं गर्वमविज्ञानं पारिप्लवमसंयमम, वाक्पारुष्यं विशेषेण वर्जयेन्द्रोजनक्षणे। अभक्तानां कदर्याणामव्रतानां च सद्यसु, न भुंजीत तथा साधुदैन्यकारुण्यकारिणाम् ॥ इत्येवं परमविज्ञानं यस्य स परमविज्ञान: तस्य संबोधने हे परमविज्ञान ! पुनः नम: नमस्कार: हे परमसंयम:- परमः सोत्कृष्टः संयम: सप्तदशप्रकारो यस्य स परमसंयम: तस्यामंत्रणे हे परमसंयम । तथा चोक्तं पंचासक्वेरमणं पंचिंदियणिग्गहो कषायजउ । तिहि दंडेहि य विरदी सत्तारस संयमा भणिया॥ पुन: नमः नमस्कारोऽस्तु कस्मै परमदृग्दृष्टपरमार्थाय परमदृशा केवलज्ञानलोचनेन दृष्टो निरीक्षितोऽवलोकितः परमार्थ: मोक्षपदार्थो येन सः परमदृग्दृष्टपरमार्थः तस्मैपरमदृग्दृष्टपरमार्थाय, अथवा परमदृशा मतिश्रुतावधिज्ञानेन दृष्टः परमार्थो वर्तनालक्षणकालो येन स परमदृग्दृष्टपरमार्थः तस्मै परमदृग्दृष्ट परमार्थाय तथा चोक्तं द्रव्यसंग्रहग्रंथे -

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272