________________
जिनसहस्रनाम टीका - २१६
जिनस्तोत्रम्
स्वयंभुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि । स्वात्मन्नैव तथोद्भूतवृत्तयेऽचिंत्यवृत्तये ॥ १ ॥
टीका - तुभ्यं नमः श्रीमते नमः अस्माकं प्रणामोस्तु कथंभूताय स्वयंभुवे स्वयं परोपदेशमंतरेण जगत्स्वरूपं जानातीति स्वयंभूः तस्मै स्वयंभुवे । पुनः नमः कस्मै तथोद्भूतवृत्तये तथा सत्यासत्यरूपा उद्भूता उत्पन्ना वृत्तिश्चारित्रं यस्य स तथोद्भूतवृत्तिः तस्मै तथोद्भूतवृत्तये । किं कृत्वा उत्पाद्य संपाद्य कं आत्मानं जीवम् क्व आत्मनि जीवे, केन कारणेन, स्वात्मनैव स्वश्चासौ आत्मा स्वात्मा, तेन स्वात्मना, पुनः अचिंत्यवृत्तये, अचिंत्या अनिर्वचनीया वक्तुमशक्या वृत्तिर्वर्त्तनं माहात्म्यं यस्य स अचिन्त्यवृत्तिः तस्मै अचिन्त्यवृत्तये ॥ १ ॥
अर्थ : परोपदेश के बिना ही जगत् के स्वरूप को जानते हैं अतः आप 'स्वयंभू' हैं, अपनी आत्मा में, अपनी आत्मा के द्वारा अपने आपको उत्पन्न किया है अतः आप 'स्वयंभू' हैं। तथा सत्य ( निश्चय) असत्य ( व्यवहार नय ) रूपसे उत्पन्न हुआ है चारित्र जिसके वह उद्भूतवृत्ति कहलाते हैं। अचिन्त्य अनिर्वचनीय, वचनों के द्वारा जिसका कथन करना अशक्य है 'वृत्ति' माहात्म्य जिसका उसको अचिन्त्य वृत्ति कहते हैं। ऐसे 'स्वयंभू' उद्भूत वृत्ति और अचिंत्य माहात्म्य वाले आपको मेरा नमस्कार हो ॥ १ ॥
नमस्ते जगतां पत्ये लक्ष्मीभर्त्रे नमो नमः । विदांवर नमस्तुभ्यं नमस्ते वदतां वर ॥ २ ॥
-
टीका - ते तुभ्यं नमः पादपतनमस्तु । कस्मै जगतां पत्ये जगतां चतुरशीतिलक्षयोनिसमुत्पन्नप्राणिनां पत्ये स्वामिने । पुनः नमोनमः वारंवारं प्रणामोस्तु कस्मै लक्ष्मी भर्त्रे लक्ष्म्याः स्वर्गमृत्युपातालोद्भवायाः विष्णुकान्ताया: भर्त्ता स्वामी तस्मै लक्ष्मीभर्त्रे । पुनः तुभ्यं नमः नमस्कारोऽस्तु । हे विदांवर: विदां विदुषां मध्ये वरः श्रेष्ठः विदांवर तस्यामंत्रणे हे विदांवर! हे वदतां परमतार्किकाणां मध्येवर: प्रधान: तस्य संबोधनं हे वदतांवर, ते तुभ्यं नमः नमस्कारोऽस्तु ॥ २ ॥
१. 'संपाद्य' पाठ भी आदिपुराण में आया है।
हा