________________
* जिनसहस्रनाम टीका - २२९ १ नमस्कार हो। जो केवलज्ञान रूप ऋद्धि से युक्त होते हैं उनको ऋषि कहते हैं। केवलज्ञान सर्वोत्कृष्ट है, श्रेष्ठ है। उस केवलज्ञानी परमऋषि के लिए नमस्कार हो ॥२०॥
नमः परमविद्याय नमः परमतच्छिदे। नमः परमतत्त्वाय नमस्ते परमात्मने ॥२१॥
टीका - नमः परमविद्याय- केवलज्ञानलक्षणोपलक्षिता मतिश्रुतावधिमनःपर्ययरहिता विद्या परमविद्या यस्येति परमविद्यः तस्मै परमविद्याय। उक्तं च पूज्यपादेन भगवता
क्षायिकमनंतमेकं, त्रिकालसर्वार्थयुगपदवभासम्। सकलसुखधाम सततं वंदेऽहं केवलज्ञानम् ।।
नमः परमतच्छिदे-परमतं परकीयं मतं छिनत्तीति परमतच्छित् तस्मै परमतच्छिदे उक्तं व श्रीसमन्तभद्राचार्य:
बहुगुणसंपदसकलं, परमतमपि मधुरवचनविन्यासकलम् । नयभक्त्यवतं सकलं, तव देव मतं समन्तभद्रं सकलम् ॥
अस्यायमर्थ:- बहवश्च ते गुणाश्च सर्वज्ञवीतरागत्वादयः तेषां संपत् संपत्तिः तया असकलं असम्पूर्ण परस्य मतम् । पुनरपि कथंभूतं परमतं मधुरवचनविन्यासकलं मधुराणि श्रुतिरमणीयानि वचनानि च तेषां विन्यासो रचना तेन कलं मनोज्ञं, हे देव तव मतं शासनम् समन्तभद्रं, समंतात् भद्रं सर्वतः शोभमानं सकलं समस्तं पुनः नयभक्त्यवतंसकलम् नया: नैगमादयस्तेषां भक्तय: भंगास्ते एवावतंसकं कर्णभूषणं तल्लातीति नयभक्त्यवतंसकलमिति। पुन: परमतत्त्वाय परमं तत्त्वं मोक्षतत्त्वमस्यास्तीति परमतत्त्वः तस्मै परमतत्त्वाय । पुनः नमस्ते परमात्मने परमः उत्कृष्ट: केवलज्ञानी आत्मा जीवो यस्य सः परमात्मा तस्मै परमात्मने नमः ॥२१॥
अर्थ - मति, श्रुत, अवधि और मन:पर्यय रूप क्षायोपशमिक ज्ञानसे रहित केवलज्ञान रूप परम विद्या जिसके होती है वह परमविद्य कहलाता है। पूज्यपाद स्वामी ने भी क्षायिक अनन्त, एक (असहाय, अद्वितीय) तीनलोक और तीनकाल के सर्व पदार्थ और उनकी सारी पर्यायों को एक साथ जानने