Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 137
________________ तृतीयलहरी सुदूरं परिधावनपरा निराश्रया कांतारैकशरण्या सरश्वेदमास्माकमाससाद । आसाद्य च सोपानतले निषण्णां विषण्णहृदयामेकाकिनीमेनां बालिकामवलोक्य दयाधीनहृदयोऽहमाहूय निजोटजमनीनयम् । तथाचेदानीमगण्यतारुण्यपण्या प्रमदेयं देया निरंतरोपलालिता तस्मै चारुवक्त्रायेत्यकथयत् । इयं तावदासवस्येव मदजनकस्य कृष्णस्येव समुत्पादितमकरध्वजस्य कृष्णपक्षस्येव जनितमोहांधकारस्य भवदीयोदंतस्य श्रवणात्प्रभृति स्वयमेवोन्मत्तेव किमपि व्याहरंती समारब्धवतेव दूरीकृताहारा बधिरेव शब्दापिताप्यदत्तप्रतिवचना मधुमासकुंदलतापलाशश्रीवि पांडरशरीरा बहुलपक्षक्षपाकरकलेव क्रमक्षीयमाणातिकृशतनुर्मुक्तेव भवद्गुणस्यूतहृदया जगदखिलमपि शून्यमिव मन्यमाना मानातीतचिंता मया समाश्वास्यमाना चाभवत् । अद्य तावदनवद्यांगीयं कुरंगीवात्र हृधे शाद्वलतले सुसुखं कालयापनाय मया साकं पर्यटन्ती, “ अयि ! सखि ! कथमिव तत्प्राप्तिः ? कथमपि दर्शनपथमागतोऽपि मुनिजनोचितवेषां मामेनां कथं वांगीकरिष्यति ? कथमिव दर्शनपथसमागमो वा ? यदनवकर्णितमदुदंतस्सः नरपतिमकुटकोटिही रमरीचिनीराजितचरणारविंदः कथं वा मदिदृक्षया समागच्छेत् ? निरंतर श्रमसाध्यकर्मरतानां तापसानामाश्रमवासिनां जठरपतितामेनां मां को वा शंसति तस्मै ? कथं कथमपि श्रुतास्मदुदंतोऽपि चक्रवर्ती गणयति वा मां ? यदहमहमिकया वित्तमत्तमत्तकाशिनीभिस्सादरमाद्रियते। वल्कलधारिण्यै मलिनवेषायै मह्यं अपि नाम स्पृहयति ? स्वप्नस्वापतेयकल्पमिदम् । सङ्कल्पमात्रहृद्यम । वाचा वर्णनमात्रसौहित्यम् । कथं कथमपि बहुधा चिंतितमपि न मे हृदयमधिरोहति तत्संबन्ध - गन्धोऽपि । क्कायमाश्रमः श्रमैकजीविनां ? क्व सा नगरी गरीयसी भोगै कलोलुपानाम् । मेरुसर्षपांतरोऽयं सङ्कल्पः । मुधा मनश्श्रमः । पर्णशालावाससुहिताया मे हृदयालवाले तातेन दीर्घसत्रेण मुधा समारोपितोऽयमाशांकुरः । एवं विदितव्यवहारापि निवर्तयितुं हृदयं तदुदंतान्न 107

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254