Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 194
________________ जयन्तिका ग्राम्यजनोचितवेषा पुनरप्युपशल्येषु पक्कणेषु च विचारयन्ती अभिज्ञानशंसनपुरस्सरं तत्रत्यानप्राप्तमनोरथा भिक्षुरूपाच्छादितात्मरूपा नगरेषु परिभ्रमन्ती तदलाभनिर्वेदविषण्णहृदया पुनरप्यस्मिन्नहनि प्राप्तकांतारा मुधा आसायं परिभ्रमन्ती वितथमनोरथा प्रतिनिवृत्तास्मि । बहुधा चिंतित - मपि नैव स्फुरति तत्प्राप्तिसंभावनापि । यदर्थमनभिमतोऽप्यंगीकृतोऽयं वेषः । राज्यसंपदप्यनुमता । हन्त ! नैव गणितो राज्यभारक्लेशोऽपि । समाश्रितश्च कुलप्रतीपोऽयमाचारः । जल्पितमप्यनृतम् । धिगिमां माम् । तयोरलाभे किमनेन वेषेण किमनेन राज्येन किंवा जीवितेन ? जगदिदं शून्यमिव प्रतिभाति । निरयप्रायं खलु राज्यमिदम् । सुखमिदमप्यसुखायते । ज्वलनज्वालेव मां दहतीयमाभरणपरंपरा । विभूषणमणिरश्मिजालबद्धेवास्मि राज्ये नियन्त्रिता । निरर्थकं मे जन्म । तदिदानीं क्षणमपि नाहं वसामि सौधेऽस्मिन्नरण्यानीशरण्या भवेयम् । भवतु भवत्येव तावदिह वीरकेतुमनस्सांत्वनाय । दत्वा चाहारार्थं वनसत्वेभ्यशरीरमिदं सार्थयामि जन्म मदीयम् । इति व्याहरती मन्दं श्रमापनिनीषया भूषणमखिलमप्यवतार्य स्वयमेव निवार्य च मुखकमलतालसमुल्लसच्छ्रमजलबिंदुजालं चेलांचलेन वीजयंत्यात्मपाणिना चिंताक्रांतस्वांता बभूव । तदानीं सा तु तापसी श्रमापनयनाय वीजयंत्यास्तस्यास्तावददृष्ट्वा मणिबन्धे मणिमालां सावेगं वत्से ! किन्नु खल्विदम् १ न दृश्यते ते मणिबन्धे निबद्धा सा मणिमाला । किमु भवत्या क्वाप्यवतार्य विनिहिता - भ्यंतरे ? आहोस्विदरण्ये परिभ्रमंत्या त्वया क्वापि विनिपातिता ? किमिदम् ? शून्यमणिबन्धासि । इत्यपृच्छत् । एवमभिहिता सा तु जयंतिका निजमणिबन्धमवलोक्य मालारिक्तमावेगेन साध्वसपरिस्फुरदयेतिकर्तव्यतामूढा किं करोमि ? नास्ति खलु मणिबन्धे माला । हन्त ! वाजिनो जवोत्पादनाय समुच्चालितभुजदंडतयांधकारस्थ गिते कांतारे क्वापि प्रच्युता भवेत् । धिगेनां मां मंदभागिनीम् । किमद्य करोमि ? कथं 164 ·

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254