Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 245
________________ पञ्चमलहरी 215 यशःपुंजेनेव परिष्कृतोत्तमांग प्रत्युप्तपृथुलपद्मरागरंजिताभ्यां कुंडलाभ्यां रहसि प्रीत्यतिशयावेदनाय प्रजाभिः पिंडीकृत्य प्रेषिताभ्यामिवानुरागाभ्यां परिमंडितोच्छूनलम्बमानश्रवणपाशं पलितशीर्णलम्बमानभ्रूयुगलं ललाटमध्यविनिहितकुंकुमस्थासकेन प्रकटयंतमिवेश्वरभावं सर्वदा वदननिस्सरत्तथ्यवचनसलिलक्षालिततयेव गलितकृष्णवर्णेन श्मश्रुकलापेन परिष्कृतोठोर्ध्वदेशं पलितश्मश्रुकलापधावल्यावलोकनापत्रपयेव गलितरदनपंक्तिना वलिविलुलिताधरोष्ठपुटेन निरंतरकंपमानवदनप्रचाल्यमानचुबुकं मानससरस्समुड्डीयमानया अवदातगुणराजहंसपंक्त्यवैकावल्या समाश्लिष्टेन समुच्छूनचलाचलगलास्थिपिंडेन समुन्नतसिराततवलितरंगितत्वचा कंठेनोपशोभमानं स्निग्धतरांजनाभेनाजानुलंबिना तनुत्रेणावगुण्ठितकार्य सलिलभरलम्बमानवलाहकाच्छादितसानुदेशं जङ्गमं शिखरिणमिव यज्ञोपवीतवत्कृतस्पृहणीयपत्रभङ्गसुभगतपनीयमयपट्टिकं परिस्फुरत्सौदामनीकं वारिवाहमिव धात्पथोऽनपेततया करगतेनेव कालपिशुनेन कालचक्रेण तनुतरतपनीयपट्टिकाबद्धेन चक्राकारेण शातकुंभमयकालयन्त्रेण रमणीयवाममणिबन्धं प्रजानामपराधानुरूपकृतदंडतया संक्रांततदुरितनिचयेनेवासितवर्णेन सुवर्णपट्टिकापरिष्कृताग्रभागेनानतिस्थूलेन महणतरेणानरालकृष्णकाकोदरभोगनिभेन दंडेन परिमंडितदक्षिणपाणिं पयःपारावारफेनपिंडविशदेनागुल्फावसक्तेन चण्डातकेनालंकृतोरुकांडं अशरण्यतया नमस्कुर्वता स्थित्यभ्यर्थनाय चिकुरगतनीलिमपुंजेनेव मसूणतरेण कृष्णवर्णेन पादयुगलेन परिमंडितचरणयुगलं पौरमुख्यैरनुगम्यमानं जराभिभूतमपि जरत्केसरिणमिवापरित्यक्तमहासत्वं नवतिवत्सरदेश्यं सचिवावतंसं मरुन्मालमपश्यत् । ___ दृष्ट्वाचांब ! स महात्मा सकलतन्त्रपारदृश्वास्मदर्थ दुरूढमपि राज्यमारं प्रज्ञाबलेन सुसुखमियन्तं कालं साधूदा वात्सल्यातिशयादस्मत्तातनिधनदुःखमपि विस्मारयन्नस्मद्दिदृक्षयाभ्येति मरुन्माल इति जनन्यै न्यवेदयत् । श्रुत्वा च वरमालिनी वत्स ! भवत्पितुरपि गुरुमतिवाचस्पति

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254