Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India
View full book text
________________ 224 जयन्तिका राजकं न भवेद्धि ? एतदुभयमपि विचिंतयतो ममैवं प्रतिभाति / भवतस्तनयं विनयाकरं कुमारं वोरसेनमेनमभिषिच्य पुरेऽस्मिन्यथाभिलषितं यातु भवानिति। श्रुत्वा तदभिहितं जोवसेनो दयितामुखमवलोक्य किं ते तावदभिमतमिदमिति पप्रच्छ / एवं पृष्टा तु जयंतिका किं ब्रवीमि ? कालमेतावन्तं तावत्तनयवियोगखिन्ना दैवयोगात्सन्निहितं पुत्रमेनं विहाय कथमिवातिवाहयामि कालम् ? मत्पितृवचनानुरोधेन कथमपि सद्य एव भवेद्धि तनयविरहः / राज्यस्याराजकतापरिहाराय दातव्य एव तनयः / पितुरभिमतमेव ममापीत्यकथयत्। जोवसेनोऽपि तथेत्यभ्युपगम्य शुभेऽहनि शुभ मुहूर्ते च पूततीर्थोदकैः ज्ञानेन वयसा च वृद्धैः द्विजोत्तमैर्वीरसेनमभ्यषेचयत् / अभिषिक्तश्च वीरसेनो नवरत्नमयसालभंजिकामंजुलं मुक्ताकलापवलयितसितातपत्रमण्डलविडम्बितादिशेषविततफणामण्डलं सिंहासनमधिरुह्य प्रत्नरत्नभासुरकिरीटपरिष्कृतोत्तमांगः समुद्भूयमानशरदभ्रविभ्रमहरचामरमनोहरोभयपार्श्वः सामंतनरपतिकिरोटरत्नप्रभाशबलितचरणनलिनः पो रैरभिनंद्यमानः सभास्तारान्यथोचितं सत्कृत्य जयध्वानप्रमुदितमानसः प्रजानयनान्यानंदयन्नवतीर्य चासनाद्गुरूनखिलानपि प्रणम्य तदनुमत्या धर्मेण प्रजापरिपालनपरो रराज। तदनु जीवसेनस्सादरं समानितः सत्यकीर्तिना कदाचिद्वैजयंत्यां कदाचिदरिभोकरायां कदाचिद्धेमपुरे च जयंतिकया सह निर्वर्तितानेकऋतुकर्मा निर्मर्यादमानंदमनुभवन्सुसुखमासोत् / इति श्रीयदुशैलवासि, बालधन्विकुलकलशजलनिधिकलानिधि, विद्याविशाख, संस्कृतसेवासक्त, कविकुलतिलक, गज्यप्रशस्ति, राष्ट्रपतिप्रशस्तिपरिष्कृत, श्रीमहीशूग्नाल्वडिकृष्णभूपसुवर्णपदक साहित्यपरिषद्रजतपदकसमलडूत-जग्गुवकुलभूषणमहाकविविरचितायां, जयन्तिकायां पञ्चमलहरी सम्पूर्णा //

Page Navigation
1 ... 252 253 254