Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 207
________________ पञ्चमलहरी द्वारीति । तत्प्रथमं करोतु भवानस्य शिरस्युदकप्रोक्षणमित्यावेदयद्देवलाय । निशम्य स देवलकोऽपि हन्तापिनाम सत्यम् १ किमर्थमेवमभिहितं नरपतिना ? किमपराद्धमनेन ? कुतो वा नृशंसता नरपतेरीदृशी ? एतच्छ्रवणमात्रेण विलोनमिव मे हृदयं दूयतेतराम् । न किमु दया महोशस्य १ हन्त ! कथं वा निपातयिष्यति कृपारहितः कृपाणधारां कंधरायां सुन्दरस्यास्य स मातंगः ? भ्रामितोत्तमांगोऽस्मीति स देवलकः प्रथमं तच्छिसि नयनाभ्यामुदकं ततश्च पाणिना न्यपातयत् । देवलकवचश्श्रवणसमनंतरमेव वज्राभिहत इव भयविह्वलितांतरंगः परिस्फुटितहृदयः इवेतिकर्तव्यतामूढः शिरसि निपतितमिव गगनं मन्वानः भूविवरं प्रविष्टमिवात्मानं विजानन् किमपराद्धं मया ? नापहृतं परद्रव्यम् । न हिंसिताः प्राणिनः । नोक्तान्यनृतानि । नापि चिंतिता मनसापि परपोडा । न कृतः कापुरुषसहवासः । न खलु निंदितास्साधुजनाः । न वञ्चितो लोकः । नाचरितं क्रूरकर्म । न विनितमवदातं कर्म । नापि त्यक्तानि कर्तव्यानि । पालिता एव गावः । दत्तं च दुग्धमर्थिभ्यः । तुष्टा एव वत्साः जननी - पयःपानेन । समूढा च पित्रो: आज्ञा शिरसा । अनुवर्तिता ग्राम्यजनाः । न जाने नरपतिदण्डस्येदृशस्य केन वान्येन कारणेन मंदभाग्योऽहं भाजनमभवमिति बहुधा चिंतयतोऽपि मे न किमपि स्फुरति । हन्त ! स्मृतमिदानीम् । सत्यं कृतमहापराधोऽहम् । दंडय एवास्मि । यतोऽहं गुहायां जननोमेकाकिनीं पतिविरहदुःखितामनाथां विहाय बालभावेन हरिणजिघृक्षया कृतघ्न इव क्वापि गतः । तत एव विदितोदतः नरपतिरकरोदोदृशदंडभाजनं मामिति रुदन्नंवेति दोनरावमाक्रन्दन्वेपमानस्तस्थौ । स भटस्तु दयादलितहृदयः दीनदीनमेनं समवलोक्य स्वयमपि दीनदीनः सगद्गदं वत्स ! मंदमायाहि । बलवती खलु राजाज्ञा । को वा तदन्यधा कर्तुं शक्नोति । मा रोदीर्मारणसमयस्सन्निहितः । तदायाहीति तमादाय वध्यशिलोपकंठ मानिनाय । J-23 177

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254