Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 222
________________ जयन्तिका देवेन कथमपि प्रापणीयमिदं पत्र तामिति । एवमभिधाय वत्स ! क्कासि दर्शय ते मुखकमलम् । बाष्पप्लावितेनानेन चक्षुषावलोकयाम्येकवारं पुनर्दुर्लभम् । बाष्पाकुलतया नैव दृश्यसे । क्कासि ? वत्स ! क्कासि ? वत्स ! मामवलम्बस्व । प्रसारितभुजः परिरम्य मामाभाषयेत्यसकृदन् तमादाय बालकं शिरस्याघ्राय हा ! कथमिव हन्मि नृशंसोऽहम । हा ! नियते ! लोकविलक्षणोऽस्मीति विसंज्ञः पपात वसुमत्याम् । तदा स बालको बाष्पगद्गदकण्ठो हा! तात ! किमिदमुचितं ते क्षत्रावतंसस्य क्षत्रियाणां शस्त्रघातेनोत्सवो हि प्राणत्यागः । भुवि लब्धजन्मा कदापि केनापि कारणेन त्यजेदेव प्राणान् । तदिह किमर्थमबलावन्मुधा प्रलपसि । क्षिप्रमुत्तिष्ठ । निर्वर्तय नरपतिनियोगम् । इति तं मंदमुत्थाप्य क्षितितलपतितं करवालमादाय च तत्पाणिना बलाद्वाहयामास । तदनु स मातंगस्समुन्नमय्य तं कृपाणं रे ! तिग्मतर पाप ! बाष्पहतक ! कुतो वा मुधा निरुणत्सि मन्नयनसरणिम् । मा कुरु नरपतिशासनस्यांतरायम् । पाप ! पाणिहतक ! कुतो वा वेपमानः पातयसि कृपाणं क्षितितले । निपातय निर्भयं निरनुकम्पं तनयग्रीवायाम् । अयि ! दुर्गे ! निर्गतिकस्य समाश्रितभवच्चरणसरसिजस्य घोरतरदुरितभाजनस्यास्य जनस्य नालमेतेनानुभवेनास्वादितानेकपशुरुधिरधार ! निप ! निस्त्रिंश ! साधु स्वदस्व तनयकंधरारुधिरधाराम् । रे ! जीव सेनहतक ! केवलविडम्बनमेव ते परिदेवनमपि । किं मुधा प्रलपसीत्युचैराक्रन्दन्निपात्य चासिधारया पुत्रकंधरां वसुन्धरायां स्वयमप्यात्मग्रीवायां स्वपाणिनैव पातयामास कृपाण - धाराम् । मातंगनिधनमप्यवलोक्य समुद्विग्नहृदयस्स भटः ससंभ्रमं सावेगं सवेगं समासाद्य च प्रासादं तापसीं प्रति जीवसेनान्वेषणोपायमेव व्याहरत्यै मुहुर्वामेतरेक्षणपरिस्फुरणपिशुनितां निर्निमित्तापशकुन भीतिमपि प्रकाशयत्यै तस्यै जयंतिकायै साध्वसवेपमानगात्रो निवेद्य च मातंगवचनमखिलमपि तन्मरणं च तेन दत्तमिदं पत्रमिति सबाध्यं सविनयं तत्पत्रमर्पयामास । 192

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254