Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 210
________________ 180 जयन्तिका किमिदमापतितं दैवदौललित्यम् ? मचश्श्रवणमात्रेणायमीदृशीमवस्थामापन्नः । भवेदयमेव निहतनिजस्वरूपो जीवसेनः ? नान्यधा जयंतिकाभिधानश्रवणमात्रेणानुभवेदीदृशीमवस्थाम् । श्रूयते हि भारतादिषु दैवदुर्विपाकानलोऽपि प्रियाविरहितः कांतारे समासाद्य रूपांतरं परसेवानिरतः बभूवेति । हरिश्चन्द्रोऽपि चन्द्राननां विहाय दूरीकृततनयः परिगृहीतचण्डालभावः परपरिचर्यामाचरति स्मेति चेति विचिंत्य संवीज्य निजारुणचेलांचलेन समुदजनयचैतन्यम् । लब्धसंज्ञस्स मातङ्गो मंदमुन्मील्य चाश्रुकलुषितं लोचनयुगलं हा ! प्रिये ! कासीत्युत्थाय दृढतरं परिरभ्य च तं बालकं वत्स ! कसा तपस्विनी जयंतिका ? कथं वर्तते ? कीदृशश्च तस्याः दिवसव्यापारः ? क वा तव जनिः ? कथं वा ते जननीवियोगः ? का वा सा तापसी ? क गुहा ? कथं वात्र भवदागमनम् ? कुतश्च तवेदशी दारुणा शिक्षा ? बालेन भवता किमपराद्धम् ? कौ च तौ वृषलदम्पती ? कियडूरे च ते निवासग्रामः ? कथमिवाभवो राजभटवशवर्ती ? कथमिव तेषां त्वयि प्रत्यभिज्ञा ? वत्स ! निवेदय दयया मे तदखिलमपीति सगद्गदमप्राक्षीत् । पृष्टश्च स बालको हन्त ! किमिदम् ? कथमिदम् ? कीदृगिदम् ? मनसाप्यचिंतितमिदम् । अहो ! दैवघटना ! काहम् ? क्वायम् ? स्यादयमपि नाम जीवसेनः ? नान्यथा भवेदीदृश्यवस्था जयंतिकानामश्रवणमात्रेण । कुतो वा तस्य जीवसेनस्य दुस्सहमातंगताप्राप्तिः १ किमर्थं वा तस्य कठोरे प्राणिनिषूदने प्रवृत्तिः १ भवतु नामैतदुदंतजिज्ञासया तावनिवेदयामि विस्तरतो मदुदंतमिति विचिंत्य वकुमारभत । आसीत्पडन्ददेश्यं मां परिपालयन्ती पतिविरहिता क्षितिपतिदुहिता तापसीसहिता कांतारे गुहायां जयंतिका नाम । सा तु सततमपि नयनकुवलयोगलदश्रुस्रोतोमिः प्रक्षालयन्ती कपोलफलकं वक्षोजमंडलं च जीवितनिर्विशेष! जीवसेन ! आर्यपुत्र ! विपुलोरस्क ! तिरस्कृतस्मरसौंदर्य ! मम तावद

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254