Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 219
________________ पञ्चमलहरी 189 क्वचिक्रियमाणचितं वचित्परिजनानीयमानेंधनबन्धुरशकटं क्वचिन्मातृकृते कार्यमाणपुत्रशिरोमुंडनं कचिद्विप्राय समंत्रघोषं दोयमानतिलसंभृतकांस्यभाजनं क्वचित्रिकूटोकृतशिलाघनाधिश्रयणीसमारोपितमृद्भाजनपच्यमानतंडुलमचिरकृतस्नानतया परिधृताईचेलतया च कचिच्छीतलवातकंप्यमानाधरकरपुटैः पुत्रैः क्रियमाणपितृक्रिय कचित्क्रियमाणास्थिसंचयनं क्वचित्प्रदत्तप्रभूतबलिसंग्रहणलंपटकाकोलगृध्रनोरंधितापर्णमहोरुह-विटपपटलं कचिदानीयमानशववाहनं कुत्रचिचितानलधूमप्रसमरवसागन्धं कुत्रचित्सिमसिमायमानचितानलं कुत्रचित्प्रज्वलच्चितानलज्वालाशिखरपरिस्फुरत्स्फुलिंगसंघचटचटात्कारवाचालितं कुत्रचित्सितभसितधवलितं कुत्रचित्स्फुटितमृण्मयभाजनं श्मशानवाटमपश्यम् । ____ दृष्ट्वा चाहो दुःखमयता जगतः । पितृवनमिदं पिशुनयति जीवितस्य जलबुद्दकल्पताम् । दूरोकरोत्यभिमानं मानवस्य । प्रकाशयति कालस्य निष्करुणताम् । अंकुरयति रागिणां हृदयालवाले वैराग्यम् । उपजनयत्युद्योगिनामपि निर्वेदम् । शंसत्यसारतां संसारस्य । समुन्मेषयति नास्तिकस्यापि मानसे हरिचरणस्मरणम् । प्रकटीकरोति भगवतो मायावैचित्र्यम् । दर्शयति समवर्तिनो निर्दाक्षिण्यम् । कुण्ठयति जनतायामुत्साहम्। उत्सारयति शुभोदर्कभावनाम् । कुण्ठयति समुत्कण्ठाम् । वर्धयत्यस्थिरतामनोषाम् । उद्वेजयति परस्परप्रेमविलासम्। संक्रामयति बन्धुजनविश्लेषक्लेशम् । विस्मारयति पुनर्घटनाधिषणाम् । समद्बोधयति नश्वरतां शरीरस्य । समुपदिशति हेयतां विषयाणाम् । इति बहुधा विचिंतयस्तत्रैव ततः इतः पर्यटन्नवनितलनिपतितं धूममलिनं समीरजवचालिततया समोपे परिलुठन्तं खंडपटमेकमपश्यम् । दृष्ट्वा च दुर्विधिना प्रेरितमवश्यमनुभोक्तव्यतालेखपटमिवाविगणय्य च कुणपसंपर्कापवित्रतामविचार्य चानादेयतां दुर्गतो वित्तमिवादाय परिधाय च ततः क्रोशमिव गत्वा स्पृहणीयसौन्दर्य मर्यादातीतसौभाग्यं चित्रपुरमिदमवालोकयम् ।


Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254