Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 214
________________ 184 जयन्तिका निजोदवसितमासाद्यानपत्यतादुःखितायै वृद्धायै प्रायच्छन्निजगृहिण्यै । सा तु जरती शूद्री निरतिशयानंदद्विगुणितशिरःकंपा मामादायांकतले समुपवेश्य शिरस्याघ्राय कंपमानेन पाणिना शिरः परामृशन्ती वत्स ! कथमेकाकी कांतारे स्थितवानसि ? का ते माता ? कस्ते पिता ? कुतो वा बालोऽप्येकाकी निराश्रयस्तावदनाथ इव विपिनगतोऽसि ? इति पृच्छन्ती क्षुधितोऽसि । पिब तावहुग्धमिति पाययन्ती क्षीरं प्रीत्यतिशयेन जननीव मां पालयति स्म। अहं तावन्निषण्णो बहिर्वितर्दिकायां प्रभात एव पर्युषितानाशनसुहितान्सीरभुजशिखरान्युगस्कंधाननडप्रेरणपरान्पांसुलचर - णान्वृषलान् शिरसि कटितटे च विनिहितकूपोदकसंभृतमृण्मयकलशाः निनोन्नतसरणिसञ्चरणशीलाः मुग्धाश्शूद्रीश्च काश्चिद्दोहनकर्मणि निरताः काश्चिदवकरपिटकमस्तकाः काश्चिदधिमथनसक्ताः काश्चित्संमार्जनीमार्जनपराः काश्चित्प्रचाराय मुच्यमानसुरभिच्छागोरम्रगणान् समादिशंत्यो योषितश्च ग्राम्योचितक्रीडैकतानान्बालकांश्च पश्यन्कालमत्यवाहयम् । एवं व्यतीते च वत्सरचतुष्टये वृद्धभावाद्दौर्षल्याश्च संचारासमर्थस्सः तु वृषलः पितृनिर्विशेषः प्राहिणोन्मां पशूनामवनाय निकटशाद्वलं काननम् । अहमपि वृषलबालकैस्सह क्रीडैकतानः चारयन्पशूनां कुलं कालमत्यवाहयम् । एवं स्थिते कदाचिदरण्ये पशूश्वारयतो मम पुरतः पपातांतरिक्षात्काचिन्माणिक्यमाला । सविस्मयं तामवलोक्य मोदादादाय मदीयवेणुशिखरमायोजयम् । तदनु कतिपयेषु मासेषु व्यतीतेषु कदाचित्प्रतिदिनमिव विपिने ममोपकंठमेते भटाः समुपेत्य चोरोऽयमिति रत्नमालया सह क्षितिपतिसौधद्वारमनीनयन् । अथैतेष्वेकतमो रत्नमालापाणिः प्रविश्य चाभ्यंतरं समर्प्य च मालां राज्ञे लब्धराजादेशः पुनरप्यासाद्य सौधद्वारं बाष्पवारिपूरितेक्षणः मामादाय भटैरितरैः परिवृतः प्रापयदुर्गागारमिदमित्यकथयत् । श्रुत्वा च स मातङ्गः कर्णदारण दारुणं दुर्गालयागमनकारणं विमुञ्चन्नश्रुसलिलधारां सगद्दं वत्स! जन्मांन्तरे भवता तावत्कियद्विरचितं

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254