Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 212
________________ जयन्तिका मपश्यम् । विलोक्य च तत्स्मरणपरायणा सख्या चिंतयन्ती दिष्टया मदवरोधमागतेन गन्धर्वपतिप्रसादलब्धांतर्धानविद्याकौशलेन जीवसेनाभिधेन तेन समं गुरुजनमप्यतिसन्धाय प्रस्थिता सुरंगसरण्या महारण्यमगमम् । तदा प्रौढप्रावृट्तया निरंतरजलधरनिकरकरं बिते सुरसरणिचत्वरे गंतुमक्षमतयेवास्तमुपगतवति भगवति गभस्तिमालिनि जीव सेनस्सौदामनी कशाताडितः इव शतघ्नीध्वानसन्निभघोरतरघनतरघनगर्जिततर्जित इव वर्षतारतरधारापञ्जरनिगडित इव च पदमेकमपि गंतुमनीशः साध्वसविह्वलां मामादाय सौदामनीद्युतिसाह्यगोचरीभूतां गुहां प्रविश्य तत्रैव मया सह निद्रासुखमनुबभूव । 182 तदनु मरीचिमालिन्युदयशिखरमधिगतवतीति निगदन्तं बालकमसकृत्परामृशन्पाणिना स मातङ्गस्सगद्गदं वत्स ! इतः परं साधु निवेदय कथमनुभूतस्तया क्लेशः ? कथमेकाकिनी हरिणेक्षणा कांतारे तारतारं विलपन्ती वल्लभाभासं तं जीवसेनहतकं मृगयति स्म निर्जने गहने ? कथं वा तापसीसमायोगः ? तात ! तत्सकलमपि निवेदयेति बाष्पधारासारधौताधरपुटस्सदैन्यमपृच्छत् । पृष्टश्च स बालकस्सबाष्पं सगद्गदं च तात ! कथयामि, पापोऽहं कथयामि । सावधानं शृणु तावत् । प्रभाते अहमुत्थायानवलोक्य च वल्लभं भयकंपितहृदया बहिरागत्य विपिनमभितो दत्तदृष्टिरुचैर्विलपन्ती दुर्गमे गहने तदन्वेषणपरा निराहारा खरकिरणकिरणसंतापिता यूधभ्रष्टा कुरंगीव आमध्याह्नमभ्रमम् । स मातङ्गस्तदवकर्योन्मत्त इव हा ! प्रिये ! मदेकजीविते ! निर्निमित्तं विधिवशान्निर्घृणेन मया पापीयसा परित्यक्तापि मामवलंबसे ! इन्त ! ते पातिव्रत्यम् । क्वासि ? हा ! जयंतिक ! देहि मे प्रतिवचनम् । क्कासीत्युच्चैराक्रन्दन्वत्स ! ततस्ततः इत्यपृच्छत् । पुनरपि स बालकः वक्कुमारभत । एवमेव पर्यटन्ती रमणीयतरमदृष्टपूर्वं तरुषंडानातपं मंदमारुतपरिहियमाणश्रमं तपोवनमेकमपश्यम् । वत्स ! इदमेव तत्तपोवनम् ।

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254