Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 216
________________ जयन्तिका जीवसेनपाणिरसि । कुतो वा ते दया ? तन्निपातय कृपारहितः कृपाण - मस्मिन्वत्से । हा ! वत्स ! क्कासि ? वाष्पपिहितमिदं नयनयुगलम् । न किमपि गृह्णाति । तदेहि मे प्रतिवचनम् । इति दुःखभरकंपमानकरतलच्युतमपि करवालमजानन्नेव रुधिरबन्धुरे वसुन्धरातले निपत्य निपत्य शिथिलितकचकलापः तारतारं रुदन्नंग ! घातुकोऽहं ओषधिप्रवालकुसुमसंभृततीर्थोदकाभिषेकसमुचितमधुना शोणितशोणे क्षितितले कृपाणेन पातयामि भवदुत्तमांगम् । विविधमुक्ताहारादिपरिष्करणोचितायां ते कंधरायां पाणिहतकोऽयं पातयति कृपाणधाराम् । अवरोधे रमणोगणपरिरंभणसमुचितायाः मृदुलतल्पयोग्यायाः तव तनोः तनोम्यद्य निर्दयः कीलालकलुषितं क्षितितलं शयनमिदम्। हा ! धिक्पराधीनताम् । यदि त्यजेयं मदीयान्प्राणांस्तदा भविष्यामि भर्तुराज्ञोल्लंघनदोषदूषितः । किमद्य करोमि ? हा ! नियते ! कृपया मामप्युररीकुरु नराधममेनमिति बहुधा व्यलपत् । इत्थं विलपन्तं पितरमवलोक्य स बालको दुःखभरदम्यमानकण्ठः तात ! मा रोदोः । एवं भवितव्यतां को वा निवारयति ? तदलं परिदेवनेन । किमर्थं सुन्दरीं तां एकाकिनीं कानने परित्यज्य निरनुक्रोशश्चण्डालतामोदृशीं लोकगर्हणीयां परसेवां च प्राप्तवान्भवान् ? कथमिदं चित्रपुरं समागतः ? भवदनुयायिनीं सहधर्मचारिणीं स्वयमेव विहाय किमर्थमेवं शोचसि ? निवेदय मे दयया सकलमपीति सविनयं प्रार्थयामास । 1 1 186 स मातंगस्तु साक्षररिंखणं सगद्गदं च साश्रुधारासारं सदैन्यं सावहेलनं च मास्तु वत्स ! मास्तु । किं श्रुतेन तेन गर्हितेन १ मातंगभावमापन्नस्य पापीयसो दैवदूरीकृतस्य लोकगर्हितस्य परित्यक्तद्वारस्य दारुणकर्मणः कथयितुमपि ममोदन्तं जिह्वा परावर्तते । कथमावेदयामि ? श्रुतमात्रेण स्फुटितहृदयो भविष्यसि । वक्ता तावदहं तु प्राणिमि । यतश्च वज्रसारकठोरहृदयः । वत्स ! मज्जीवितनिर्विशेष ! यदि कुतुकी श्रोतुं तदश्राव्यमपि श्रावयामि । धीरो भव । निवेदयामि वेदनाबहुलं ममोदंत 1

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254