Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 209
________________ पशमलहरी 179 मम मरणवार्ता ? नासि ? मातः यदि जल भवती । मददर्शनी कृपाणधाराम् । मा कुरु कालविलम्बम् । किं बहुनेति वध्यशिलामारोह । आरुह्य चांब ! जयंतिके ! मदेवप्राणे क्कासि ? कथमसि ? मामनवलोक्य कीदृशीमवस्थामापन्नासि ? कांतारचंक्रमणश्रमप्यविगणय्य मदन्वेषणपरा मामलब्ध्वा अपिनाम जीवसि ? अपिनाम तया तापस्या समाश्वासिता धृतप्राणासि ? निरंतरमपि पतिचिंतनसंतप्यमानापि मदवलोकनमात्रलब्धसौहित्यैव कंदरोदरे स्थिता खलु भवती । मददर्शनाकीदृशीमवस्थां प्रतिपन्नासि ? मातः यदि जीवसि ? कथमापतेत्कर्णपथं ते मम मरणवार्ता ? को वा निवेदयेन्ममोदन्तं भवत्यै ? नाहमनुशोचामि प्राणभयादपि तु तपस्विनी भवतीमनुचिंत्य । यतः पतिविरहितापि कांतारे पुत्रवात्सल्यातिरेकान्मन्मलमखिलमपि भोग्यमिव मन्वाना मदुःखमात्मीयमिवानुभवन्ती भवती परिपाल्य मां मदेकजीवितापि मत्सहवसतिसौख्यविहीनासि । हन्त ! अपिनाम स्फुटितहृदया पतिपुत्रादर्शनादसि ? अहं तु त्यजामि प्राणानद्य निघृणः। मातः ! किं सुखं पुत्रलाभेन ? आयत्यां सुखं भविष्यतीति भवत्या प्राणा धृताः । नमस्तस्यै तापस्यै । या च पतिविरहितायास्ते तदा मातेव सखीव चाभवदुर्गमे कानने । न हि ते माता नापि पिता। न बंधुः । न च भर्ता । नैव तनयः रक्षणे। अपिनाम द्रक्ष्यामि ते पुनरपि मुखपुण्डरीकम् । दुर्लभं ते प्रियवचनम् । हंत ! न जाने सात्वनपत्यतया लब्धं मामात्मपुत्रनिर्विशेषं पोषितवती जरती वृषली कथमिव सहते मद्विरहजं दुःखम् ? सर्वधा मंदभाग्योऽहम् । किमनेनानुशोचनेनेति विलपन्नश्रुधाराकल्माषितकपोलफलकः, अङ्ग ! मातङ्ग ! क्षिप्रं नरपतिनिदेशमशून्यं कुरु । निवर्तय राजाज्ञाम् । किं कालविलंबेनेति बद्धांजलिरवनमितोत्तमांगो विरराम । ___ अवकर्ण्य च कर्णकर्कशं बालकभाषितं स मातङ्गस्तत्क्षणमस्वस्थचित्तवृत्तिः परिभ्रामितोत्तमांगः कासि ? प्रिय ! जयंतिके ! देहि मे प्रतिवचनमित्युच्चैराक्रन्दन्मूर्छितः पपात । तदवलोक्य भयविह्वलस्स बालकः

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254