Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India
View full book text
________________
167
पञ्चमलहरी चर्यादत्तदृष्टिनिवर्तितस्नानादिविधिः विधिनिहितभारा तापसीभवनमासाध प्रथममेव प्रबुद्धां निर्वर्तितस्नानां तापसी प्रणम्य तया साकमाद्वारमाजगाम । उभे अपि ते द्वारि स्थितौ वाजिनावधिरुह्य प्रस्थिते । निद्रासक्तपौरजनतया नीरवेण नगरमार्गेण मंदालोकतया दृश्यादृश्यगर्तमनल्पतुहिनपातजडतरशाद्वलं कुंजोदरपुंजीभूततमःपटलं प्रतिक्षणमाविर्भवदालोकतया विस्तार्यमाणमिव पेचकपीडासमारटत्काकपटलदीनरावमुखरिततिमिरबहुलतरुपंडं तिमिरनिरंतरश्वभ्रपतनभियेव मन्दं मन्दं चरता मारुतेन प्रतिबोध्यमानवनसत्वं दरविकसद्विविधवनकुसुमचित्रगन्धबन्धुरं दुरवगाहं गहनमवजगाहाते । तावता कालेन दिनांते परिगृहीतं तेजः पुनरप्यर्पयितमिवादित्यागमनमनुपालयतः समाश्रितप्राचीहरितः जातवेदसः तेजःपुंजेनेवारुणोदयरागेण रंजिते पूर्वहरिदन्तराले प्रबुद्धपतत्त्रिणां विविधरवैः शब्दापिते कांतारे क्रमशः प्रकाशमाने रविमण्डले वत्से ! पूर्वेद्युः किमत्र प्रयातम् ? उताचाहिंडितम् ? वदेति पृच्छन्ती तापसी मालान्वेषणपरा जयंतिकया साकं कांतारमभितः पर्यटति स्म।
तत्र तत्र मार्गणव्यग्रे दुर्गममार्गपरिभ्रमणखेदमप्यविगणयन्त्यौ बभ्रमतुरामध्याह्नम् । अंबरमध्यमधिगतवति भगवति भास्वति ज्वलनस्फुलिंगनिकरैरिव प्रचण्डैरातपैः परितप्यमाने कानने खरतरातपपरिजिहीर्षया प्रच्छायतलमाश्रितेषु वनसत्वेषु सुदूरं कांतारे कृतधावनतया तीक्ष्णतरातपपरिक्लांततया च स्नापिताभ्यामिव स्वेदजलाईविग्रहाभ्यां पदे पदे प्रस्फुरन्नासारंध्र चलाचलोदरपा च निस्सरन्निश्वासाभ्यां पिपासया कासारदेशविवलितकंधराभ्यां सैंधवाभ्यामवतीर्य करगृहीतखलीने कतिचिदिव पदानि गत्वा निषिडातपसंतापासहिष्णुतया तलगतैर्विसारविसरैरुपेतं नलिनीदलोदरनिलीनमरालपोतक्कणितसुभगं तरंगशीकरशीतलकमलकषायगन्धपरिवेषणैकतानमारुतिकिशोराभ्यर्च्यमानाभ्यागतजनं जानुस्थितैणकुलपीयमानतटसलिलं प्लवनावतीर्णप्लवगालोडितकमलवनं संतापहरण

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254