Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 200
________________ जयन्तिका वामनेन धवलारुणकरवीरकुसुमगुंभनव्यग्रकंपमानांगुलिपाणिना सप्ततिवत्सरदेशीयेनाजानु-विरचित-धूमकलुषितदाडिम- कुसुमसवर्णचोरांबरकच्छेन मलिनतरस्विन्नश्वेतमृत्तिकोर्ध्वपुंड्रेन मंडितमसृणासितललाटफलकेन गर्भगृहद्वारदेशनिषण्णेन देवलकेनोपशोभमानं जरद्वृषलकृतपृथुलकुटिलरंगवल्लीरेखातरंगालंकृतांकणं देवालयमपश्यताम् ! 1 दृष्ट्वा चांतः प्रविश्य किमिदमतर्कितराजागमनमिति सविस्मयं विचित्याभ्युद्गतेन चकितचकितेन तेन देवलकेन ससंभ्रमं समुद्घाट्य तिरस्करिणीं संदर्शितं राजताभरणराजितं नीराजितं च जनार्दनं प्रणम्य समर्प्य च दक्षिणां प्रदक्षिणमार्गेण प्रचलंत्यौ देव ! भवादृशैरेव प्रभुप्रकांडैरवेक्षणोयमिदं जीर्णं मंदिरम् । भगवतो वसनमेकमपि नैव दृढतरम् । किं तु पटच्चरम् । वाहनानि प्रतीकहोनानि । पक्षीशस्य क्षुभितं पक्षयुगम् । प्रभंजनसुतस्य ध्वस्तो हस्तः । वारणस्य चरणं सव्रणम् । हयस्य क्षतमक्षि | मरालस्य खंडितं तुंडम् । कण्ठीरवस्य कुंठितः कंठः । नैव दीपस्य तैलमपि । निवेदनविहितस्तंडुलोऽपि खंडितः । क्रमेण पतति तत्र तत्र भित्तिः । इति सप्रश्रयं बद्धांजलिपुटं निवेदयता किमपि विवक्षया सरभसमन्वागच्छन्तं तं देवालयपालकं जरदूषलं प्रचालितेन पाणिनैव निवारयता तेनैव देवलकेनानुगम्यमाने सोपानपरंपरामवरुह्य भवतु पश्यामः इति तं देवलकं संप्रेष्य सैंधवाधिरूढे सत्वरं पुरं प्रविश्य जग्मतुस्यौधाभ्यन्तरम् । 170 तदनु सा जयंतिका समधिगततापस्यनुमतिः पटुतरान्कतिपयभटानभिधाय मालालक्षणं पञ्चषेभ्यो दिवसेभ्यः युष्माभिरन्विष्य कथमपि मालापत्र साकमानेतव्या माला । अथवा यदि कापि निपतितोपलब्धा तदा तामेकामेवानयंतु भवत इति प्राहिणोद्विपिनं तदेव यत्र पर्यटितं पूर्वेद्युः । प्रस्थितास्ते तु भटाः कांतारे तत्र तत्र दिनत्रयमन्विष्य मालामलब्धा च खिन्नमानसाः कांतारसंचारेण चतुर्थेऽहनि क्षुत्पीडासहिष्णवो बुभुक्षया गव्यूतिदूरवर्तिनं घोषमालोक्य तदभिमुखं प्रतस्थिरे । गत्वा च

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254