Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 193
________________ पञ्चमलहरी वनाध्वानं दृढतराकृष्टेन खलीनेन कशाभिघातेन च निवर्तिततुरंगमा पाणिताडनद्विगुणितजवं वाजिनं प्रकालयति स्म पुराभिमुखम् । प्रधावति च सैन्धवे खरतरखुरशिखरपरिरिंखणविदलितशिलाशकलपरिस्फुरत्स्फुलिंगसंगदग्धक्षितितलनिपतितशुष्कपत्रपटलतया सभयमुत्प्लुतशशवृंद संकुलं दवदहनशंकया कुलायेभ्यः प्रस्थितानां पत्ररथव्रातानां दीनरावदंतुरं प्रबुद्धानां क्षिप्रमृक्षहर्यक्षतरक्षुप्रमुखानां वनसत्वानां रूक्षारवैः परिक्षुभितं काननमभवत् । सा जयंतिका तु कशाभिघातेन द्विगुणयन्ती वाजिजवं परिस्फुरन्मणिदीपपंक्तिं कचिद्वीणां सारयन्तीभिः क्वचिदालापैकतानाभिः क्वचि - लास्याभ्यसनपराभिः क्वचिद्विचित्र प्रबन्धवाचनव्यग्राभिः बालिकाभिः दर्शनीयागाराभ्यन्तरां कचिद्विजवरगीयमाननारायणविचित्रस्तोत्रवाचालितां चित्रपुरीं प्राविशत् । प्रविश्य च राजमार्गेण गच्छन्ती समासाद्य च प्रासादं द्वितीयकक्ष्यांतरे ससंभ्रममुपसृत परिजनपरिगृहीतखलीनात्तुरंगमादवतीर्य दूरीकृतपरिजना स्वयमेकैव भित्तिनिखातनागदंतलंबितकाषायवल्कलं विमलोदकसंभृतकमंडलुमंडितैकदेशं प्रभुप्रेषितविविधमधुररसभरित - फलसांद्रकनकभाजनसनाथवेत्रासनं विस्तारितकृष्णाजिनशार्दूलचित्रकायाजिनदर्शनीयमेदिनीतलं शंकुलंबित स्फाटिकजपमालं भित्तिसाचीकृतरज्जुखटांगं पृथुदंडघटितरांकवभस्त्रिकासनाथकोणदेशं एकदेशविनिहितहसन्तीसमारोपितदुग्धभाजनं प्रविश्य च विविक्तं भवनं समास्तीर्णरुरुचर्मोत्तरच्छदतल्पसनाथे पर्यके निषण्णायै तस्यै तापस्यै नमश्चक्रे । 163 - नमस्कृत्य च तया समुपदर्शिते समासीना भद्रासने सगगदमंब ! भगवति ! पट्टाभिषेकदिनादारभ्य केनापि कैतवेन तुरगाधिरूढा तावदहमितो गता कांतारेषु भृगुप्रांतेषु वल्मीकोपांतेषु गुल्मेषु वेशंतेषु कंदरोदरेषु गिरिदुर्गेषु तरुनिवहेषु गाधेतरावटेषु स्रवन्तीप्रांतेषु पक्कणेषु नगरपरंपरासु च यथेच्छमन्यत्रापि तत्र तत्रान्विष्य तनयं वल्लभं चालब्ध्वा परिगृहीत

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254