Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 170
________________ जयन्तिका अनभिव्यक्तांतर्निलीनचञ्चरीकनिकुरुंबे पर्यंके शयाना संवेशोत्स्वप्नायमाना नन्वार्यपुत्र ! गृहोतोऽसि । क्व यासि ? न जानासि मामिति ; प्रबुद्धा च सरभसमुत्थाय च तल्पात्स्वेदसलिलस्नपितसकलावयवा युगायमानां त्रियामामनैषीत् । एवं भवन्निमित्तं क्लेशमनुभवन्ती कालमत्यवाहयत् । तदन्वेकदाहमनुपलब्धोपायांतरा सखीप्राणपरित्राणकृतादरा दराकुलितस्वांतोपह्वरे तदाशयाविष्करणाय संमंत्र्य समुपलब्धानुमतिर्विदग्धमेकं वैवधिकं भूदेवं निवेदितैतदवस्थाविशेषं विधायारिभीकरां प्रति प्राहिणवम् । स तु विदितोदन्तो मामुपेत्य न्यवेदयत्सर्वमपि । तत्प्रभृति भवदागमनसंभावनया भवदुदन्तगर्भं कथामेव कुर्वतो कालमतिवाहयति । यदि भवानधुनापि नागमिष्यज्जीवलोकं निरालम्बमकरिष्यत् । दिष्ट्या भवदागमनमिति न्यवेदयत् । गन्धर्वराजमुखादवगतभवदुदन्तोऽहं जीवसेनः अनुपदमेवागतोऽस्मि ; इति व्याजहार । तदा सा जयंतिका स्तंभितगमना विविधतुलाको टिपरिष्कृतचरणपल्लवांगुष्ठशिखरेण कुट्टिमतलमालिखन्ती विनमितवदना सदृष्टिक्षेपं कृतसंज्ञा तस्मिन्नेव डोलाफलके मरालसेनया क्षितीशमुपावेशयत् । 140 समुपवेशितो जीवसेनस्स्तनितगभीरया गिरा ननु मरालसेने ! तव सख्या तावदनलंकृतेयं डोला मामिव मदीयं हृदयमपि चालयतीति सपरिहासमब्रवीत् । तदा तया मंदस्मितमधुराधरपल्लवया मरालसेनया विफलनिजानुनययापि बलादनिच्छंत्यपि तत्पार्श्व एवोपवेशिता जयंतिका तेन जीवसेनेन ननु पक्ष्मलाक्षि ! किमिदम् । तरलतरलाभ्यां नयनाभ्यां प्रकटयसि भयतरलहृदयताम् । सन्निहिते च मयि कस्माद्वा तव भीतिः १ तदलं साध्वसेन । सविस्रंभं सरसे च प्रकाशय निजाशयं पीयूषनिष्यंदिन्या गिरा । तव तावन्मधुरालापश्रवणकुतूहलत्वरातिशयविवशहृदयस्सुदूरात्समागतोऽस्मि । मुधा कालमतिवाहयसि । यातुधानवचश्श्रवणात्प्रभृति भवदायत्तचित्तोऽस्मि । निरवलंबनोऽस्मि । पञ्चशरपरवशोऽस्मि । तदा 1 I 1

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254