Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 182
________________ जयन्तिका मनुजस्तु निजमनोवृत्त्यनुगुणतया कुर्वन्नधर्मं धर्म्यत्वेनोपपादयति । कामिनो मनसि स्वेच्छाक्रियमाणासु कामचेष्टासु नोदेति दोषमनीषैव । भवत्यपि तावदेवमेव विवेकिनी मनसि विचारय भावि क्लेशम् । मा भव मनोभवपरवशा । तदलमनया प्रार्थनयेति । 152 एवं प्रतिबोधितापि सानुनयमनभ्युपगंतारं दूरीकृतरतिसारं मामतिकुपिता वितथप्रार्थना सा तु तापसतरुणी भवतु " भवानपि लब्धस्त्रीभावस्तारुण्ये तावदप्राप्तपुरुषसंपर्कसुखविशेषः विपिनवासरतः” इति शप्त्वा सबाष्पं सरभसं निजाश्रमोपकण्ठमधावत् । ततश्वाहमुद्विमहृदयो दीनदीनस्तामेवानुसरन्बाष्पपूरपरिप्लावितनयनस्समासाद्योटजवाटं तापससंसदि न्यपतम् । तत्रत्यास्सर्वेऽपि सानुकम्पं कंपमानतनुमतनुदैन्यक्लांत वदनं मामवालोकयन् । ततश्च पृष्टोऽहं प्रह्वभावेन न्यवेदयं तदुदंतमखिलमपि । श्रुत्वा च तेषु कश्चन जरत्तरः तपोधनः कृपापरवशमानसः तामुपालभमानः निजमणिबन्धबद्धां माणिक्यमालामालोक्य सुचिरं विचित्य च वत्स ! मालामिमामंगीकुरु चिरं जीवेति मणिबन्धादवमुच्य दत्वा च मह्यमकथयत् — कुमार न कदापि वंध्यो भवति सत्यवचसां शापः । तत्सिद्धमेव स्त्रीत्वम् । तदलं चलितानुशोचनेन । माला पुनरियं योषामपि पुरुषमिव तनोति यादृशमनुचिंत्य पुरुषाकारं निबध्यते मणिबन्धे । न तु पुंस्त्वं समुलभ्यते । किञ्च धृत्वेमां भूत्वा च पुरुष इव यदि क्वापि नाशयेदेनां ततश्च विना मालया पुनस्सा दुर्लभैव योषाकृतिरपीति । अहं पुनरादाय सविनयं तां मणिमालां न यदि स्यां पुरुषः किमनयेति विचिंतयन्नपरिमितदुःखदहन दह्यमानहृदयो नारीत्वमधिगत्य निजनगरमगत्वैव तापसीवास्यां गुहायां न्यवसम् । ततश्च मम जनयिता वीरकेतुस्सुतविरहसंतप्तमानसस्समंततोऽन्विष्य स्वयमेव मामदृष्ट्वा विषण्णहृदयोऽस्मिन्नरण्ये पर्यटन्नविगणिताटवी पर्यटनक्लेशो मार्गवशादुपेत्य गुहामिमां मामवलोक्य निरर्गलनिर्गलदश्रुधाराप्रक्षालितकपोलफलको बद्धांजलि -

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254