Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 183
________________ चतुर्थलहरी पुटो निवेदयांब ! दयया । अपि नाम दृष्टो मृगयायातष्षोडशवत्सरदेश्यो मारोपमरूपो राजकुमार इत्यपृच्छत् । अहं तु तडुःखदर्शनद्विगुणितसंतापा तावदचिंतयम् । अहो ! प्रेमबन्धः । हन्त ! वात्सल्यम् । जगत्यनपत्यतैव दुःखजननी । चिराद्वतादिना प्राप्तपुत्रस्य पुत्रविश्लेषोऽनिर्वचनीयक्लेशवर्धको हि ! नितरां कुकूलानलवद्रात्रंदिवं दहति हृदयम् । कथमहं नापश्यमिति निवेदयेयम् । तदाकर्ण्य कीदृशीं दशामनुभवत्ययम् ? अपि नाम पृच्छेयमंबा कथमिति ? नैतदुचितमिव । हन्त ! जननी तावत्कथमिव सहते मद्विरहम् । भवेदपि परित्यक्ताहारा निर्निद्रा च बाष्पसलिलैः प्रक्षालिततनुतनुः क्षणमपि युगवदतिवाहयन्ती जगदखिलमपि दुःखमयमिव पश्यन्तो मन्नामप्रलपनपरा चेति विचित्य वज्रसारकठोरस्वांता पिहितनिजोदता विषयेषु दूरीकृताभिमानतया बन्धुषु निस्पृहतया प्रेमबन्धस्य त्याज्यतया च नाज्ञासिषं तव तादृशं तनयमिति दुःखितमपि पितरं प्राहिणवम् । तत्प्रभृति गुहैकशरण्यापि नारायणैकशरण्या करोत्पाटितभुक्तवनजनेत्रापि विलसदतिस्पृहणीयवनजनेत्रा विटपिशाखेव त्वगंबरावृतापि फलशून्या योषिदाकृतिविदार्यमाणहृदया विविक्तेऽस्मि - न्नरण्यं वसामीत्यकथयत् । तदवकर्ण्य जयंति का संतप्तहृदया धिङ्कारीणां चपलताम् । धिक्तासां तारुण्यम्। धिक्पुरुषसौंदर्यैकलोलुपताम् । कामिनी तु सौदामनीव प्रदर्श्यात्मकांतिमन्धयति चक्षुः । मृगतृष्णेव तृष्णोपशमनजीवनाधारभ्रांतिमुत्पाद्य हरिणमिव तरुणमपि सुदूरं धावयति । कुसुममञ्जरीव रूपगंधसंपदा वशयति जनहृदयम् । महदिदमाश्चर्यम् ! यौवनं तु नारीणां गंधर्वनगरमिव क्रमेण विशकलितं रूपांतरमापादयति । न स्थिरं तत् । तादृशतारुण्यपरिभूताश्चेष्टन्ते कामिन्यः । अत्र तावदहमेव निदर्शनमिति सगद्गदं विललाप | सा तु तापसी रुदतोमेनां जयंतिकां बहुधा सांत्वयन्तोत्थमकथयत् । वत्से ! मा रोदोः । धैर्यमवलंबस्व । मा भून्मनसि चिन्ता । द्रक्ष्यसि J-20 153

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254