Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 187
________________ चतुर्थलहरी राज्याधिकारः । पतिसुतविरहितायाः किमनेन ? क्वाप्यनाथ इव पर्यटति दीनदीने सुते पत्यौ कथमहं सिंहासनमधिरोहामि ? राज्यं तावदरण्यमिव प्रतिभाति मे । तदलमनेन यत्नेनेति तारतारं विललाप । अगृहोतनिजोपदेशायास्तस्या निशम्य परिदेवननादं तापसो खिन्नमानसा पुनरप्यचिंतयत् । अहो ! विधिविलसितम् ! क्व वा हेमपुरम् ? केदमरण्यम् ? काहं विविक्तवर्तिनो ? क्व चेयं जोवसेनमहिषी ? इंतेदृशावस्थयानया कथमिवोपनतस्सहवासः ? किमिदमपि विलिखितं मदोंय ललाटे विधिना ? हंत ! न सहे द्रष्टुमिति विचिंत्य च तापसो वल्कलांचलेन परिमृज्य नयनवारि भद्रे ! राजभावमवलंब्य माणिक्यमालाबलेन सत्यमवाप्स्यसि सुतपतिसमाश्लेषसौख्यम् । तदंगोकुरु मम प्रार्थनां कृपयेति न्यवेदयत् । 157 सा तु जयंतिका सकरुणमंच ! तथैव भवतु भवद्वाण्या । करुणयानुगृह्णातु भवतोति व्याहृत्य विरराम । सा तापसी प्रमुदितांतरंगा दृढतरमाश्लिष्य बध्वा च मणिबंधे तां मालां ध्यात्वा च भगवन्तं निजगाद । ननु कल्याणि ! कल्याणाकृतिं पुरुषं ध्यात्वा च तिष्ठ तावदिह यावदानेष्यामि मत्तातं सुतदर्शनोत्सुकमिति तत्कण्ठं पुनरप्यालिंग्य निरगात् । सत्वरं प्रस्थिता सा तापसी चित्रसन्निवेशं चित्रपुरं प्रविश्य च नरपतिप्रासादप्रतीहारे द्वारपालमब्रवीत् । का चन तापसो भवद्दिदृक्षया द्वारि तिष्ठतोति निवेदय प्रभवे इति । द्वारपालस्तु सरभसमुपेत्य राज्ञे न्यवेदयत् । श्रुत्वा च नरपतिः पाताललोक इव बलिसमाक्रांतः विपिनदेश इव तिलकांचितः केदार इव समुल्लसत्कुल्याकुलपार्श्वः प्रदीपज्वालाकोरक इव समधिगतदशाग्रः मुदेव जरया कंपिततनुः स वोरकेतुः प्रासादद्वारमाससाद ! आसाद्य प्रणम्य च भगवति ! पावय चरणन्यासेनास्मत्सौधमिति सविनयं नोत्वाभ्यंतरं समुपवेश्य कनकपौठे किमागमनकारणमित्यपृच्छत् । तदा सा तापसी भो राजन् ! न्भवतस्तनयस्सुकेशनामास्मत्तपोवने तपश्चरति । तदानयनाय मया साकमायाहीति निवेदयितु

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254