Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 181
________________ चतुर्थलहरी 151 लतापल्लवाभ्यामिव कोमलाभ्यां पाणिपल्लवाभ्यां संवाहयन्ती मच्चरणयुगलं तापसतरुणीमेकामपश्यम् । विलोक्य च ससाध्वसावेगं समुपविष्टः सप्रश्रयं यदा प्रणतिपरोऽभवं ; तदा सा तु तापसतरुणी सविभ्रमं त्रपाभरनतोत्तमांगी कुमार ! मा चर प्रणतिम् । पूरय मे मनोरथमिति निवेदयन्तीव भ्रूभंगेन पञ्चशरशरहतिवेदना प्रकटयन्तीव मकरकेतनपरतंत्रास्मि इति मंत्रयमाणेव स्पंदमानाधरपयोधरा क्षितितलदृष्टिर्नखमुखच्छिद्यमानतृणा भवता तावदनंगीकृतेयमहमेतत्कल्पेति सूचयन्तीव गात्रकंपकैतवेन प्रकाशयन्तीव मनोभवभयं निरतिशयानुरागदिग्धं निजाशयमाविश्वकार। अहं तावदवगम्य च सम्यक्तदाशयं तस्या भीतभीतस्तावदलमनया मदनविकारपरंपरया ननु मृगाक्षि ! प्रत्यक्षीकृतपरोक्षप्रवृत्ताखिलव्यापाराणां तपोधनानां ज्वलदमर्षज्वलनज्वालामालायास्तदा शलभो भवेयम् । यदि च पूरयेयमहमधुना तवेदृशं मनोरथम् । तन्मुंच मामिति तत्पादयो~पतम् । तथापि सा तु सानुनयं किमिदमेवमभिधीयते ? स्वयमागतां वृषस्यन्ती परित्यक्तमुचितं वा ? धर्मज्ञोऽसि। को वा युवा मामीशी स्वयमागतां त्यक्षं कामयते ? यद्यपि तपोधनाः परोक्षचक्षुषः तथापि मामेवापराधिनी मन्यमानाः वात्सल्यातिरेकाद्भवद्विषये क्षमाशीलाः भविष्यति । तत्कृपया मामुररीकुरु । मा मुञ्च मामिति बहुधा प्रार्थनैकताना तस्थौ । अहं तु सुचिरं विचिंत्य समुपलब्धविवेकः तन्मनःपरिवर्तनायेत्थमकथयम् । ननु मुग्धे ! कल्याणि ! नृशंसः खल्वनंगः ! स त्वशरीरः पिशाच इव पीडयति शरीरिणम् । तदाविष्टः त्यजत्याहारमिव लज्जामपि । निद्राविहीनः पर्यटत्युन्मत्त इव । नैव गणयति गुरुजनमिव निजकुलगौरवमपि । स्वाभिलषितलाभैकदत्तदृष्टिस्तपस्खीव ध्येये विनिहितमनास्सततमपि चिंतयति। तदर्थ दुस्साधमपि कर्म करोति । किं ब्रवीमि मकरकेतोश्चातुर्यम् ? स तु दृगगोचर एव सुकुमारकुसुमशरप्रयोगेण ज्ञानिनमपि विवेकिनमपि वशीकृत्य पुत्रिकानत नर्तयति। प्रायशो जगति

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254