Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 172
________________ 142 जयन्तिका खल्वाबाल्यात्परस्परप्रेमतन्तुसंतानेन। तागेकीभूतमधुना द्विधा विधाय विधात्रा दूरीकृतं खलु । विहाय मामेकाकिनी यास्यसि । यद्यपि चिरप्रार्थितेन वल्लभेन योगो मोदावह एव । तथापि प्राणनिर्विशेषां भवतीमन्तरा कथमिवाहमनाथेव प्राणिमि ? मम तावत्त्वां विना कालकलापि युगायते । कथमिवातिवाहयामि दीर्घतरान्कालान् ? कदा वा द्रक्ष्यामि पुनरपि भवतीं ? स्यादेतत् । पृष्टा च भवत्पित्रा सत्यकीर्तिना व जयंतिकेति किं ब्रवीमि ? शून्यं जातमिदं भवनं भवद्विरहितम् । भवन्निषेवितं वस्तुजातं तावद्विगुणयति मे दुःखम् । कनकपंजरपोषिताः कीराः जयंतिकेत्याह्वयंति । तदाकर्णनेन विह्वलितं भवति मे हृदयम् । भवदनवलोकनदुःखितां ते जननी कथमिव समाश्वासयामि ? परिजनानामावेगं कथमिव निवारयामि ? निंदन्ति खलु मदनवधानतां सर्वेऽपि । कथं भवेयमित्यनुलपन्ती मन्दं मन्दं सगद्गदमरोदीत् । श्रुत्वा च सखीवचनं जयंतिका दुःखभरदम्यमानकण्ठी बाष्पसलिलपूरितनयना मरालसेनायाश्शिरः परामृशन्ती करतलेन त्रपया सखीकपोलतलविनिहितमुखपुंडरीका ननु मरालसेने ! किमिदं ? प्रमोदावसरेऽपि रोदनपरासि । जानीहि तावत्पुनरपि त्वरितमेव पितृदिदृक्षया सन्निहिताम् । तदनुजानीहि गमनाय मच्छुभोदर्कतर्कणैकताना । मा तावदधुनैव निवेदयोदंतमेनं मत्पित्रे । कालानुरोधेन समयमनुपालयन्ती पितुश्श्रवणपथं प्रवेशय वृत्तमेतत् । न किमपि वक्तव्यमस्ति तुभ्यम् । चतुरा भवती खलु । मनस्सांत्वयेति सगद्गदं निगदन्ती सांत्वयामास ताम् । जीवसेनस्तु प्रेमातिशयकंदलितमेवं परस्परसल्लापमवकर्ण्य समंदस्मितं ननु मरालसेने ! किमिदमेवम् ? यद्यपि परस्परमैत्रीविवर्धितसंबंधस्य विघटनमरंतुदमेव ; तथापि लता तावदुपन्नतस्मंतरा वृद्धिं नाधिगच्छति खलु ? निरवलंबना नारी नैव शोभते । तत्कस्यचित्पुरुषस्यावलंबनमवश्यं जगत्यपेक्ष्यते । यदि न तथा तस्या जन्म निरर्थकम् । एवं स्थिते श्लाघनीयः खलु सत्पुरुषसंबंधः।

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254