Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 171
________________ चतुर्थलहरी भाषय माम् । धन्यमापादय माम् । सिञ्च मामपांगवीक्षणामृतधारया | अनुगृहोतो भवेयमिति सानुनयं बहुधाभिहिता त्रपया भिया आवेगेन चावनमितमुखी सकिलकिञ्चितं डोलाफलकदत्तदृष्टिः कथंकथमपि वक्तुमुपक्रांता लज्जा भर म्लिष्टवचना मधुरमधुरं मन्दं मन्दं स्विन्नगात्री न्यवेदयत् । नन्वार्यपुत्र ! किं ब्रवीमि ? बाधते मां स्त्रीत्वनिसर्गजा लज्जा प्रकाशयितुं निजाशयम् । यद्यदभिहितं मरालसेनया तदखिलमपि सत्यमेव । भवद्दिदृक्षा बलवतो संजाता । दिष्ट्या पश्यामि भवन्तम् । क्व वा राजधान्यरिभीकरा नाम ? केदं हेमपुरम् ? कथं वा मदुदन्तप्राप्तिः ? कथमिहागमनम् ? कथं भवद्योगः ? सर्वोऽपि मे मनोरथः स्वप्नकल्प इति निरंतरचितासंतानव्याकुलितमानसाभवम् । तेन यातुधानेन कृता खलु महत्युपकृतिः । तथाप्यधुना महदंतरायग्रस्तास्मि । नितरां भोतास्मि । यदिमां मां पिता मे सत्यकीर्तिः निजसुहृदः कांभोजभूपस्य पुत्राय दातुकामश्विरादनिच्छन्तोमपि प्रयतते । हन्ताहमपि भवदागमननिरीक्षया तावदप्रकाशितहृदया समाश्रितमौना कृतभवदानयनप्रयत्नाभवम् । तदिदानीमुदन्तोऽयं यद्याविशेत्पितुश्श्रवणपथं तदानर्थाय कल्पते । तदिदानीमनया सुरंगसरण्या निस्सराव इति । श्रुत्वा च नयोपेतं तत्कालसमुचितमंतरायभयनिवारकं वचनमस्यास्सत्वरं समुत्थाय च जयंतिकया सह जीवसेनस्समंदस्मितं मरालसेनायाः कर किसलयमवलंब्य पाणिना ननु मरालसेने ! किमु दोयते भवत्प्रियसखोगमनायानुमतिरित्यपृच्छत् । पृष्टा च सा मरालसेना प्रमोदनिदान - मप्यशनिपरुषतरं विचिंत्य नरपतिवचः निरर्गलनिर्गलदश्रुसलिलप्लाविततारका विनमितोत्तमांगी दुःखभरदम्यमानकंठनालतया निरुत्तरा च सखीविरहासहिष्णुतया बाष्पपूराभिषिच्यमानकपोलफलकवक्षोजमंडला दृढतरं परिरभ्य बाहुलताभ्यां जयंतिकां सगद्गदं ननु मत्सुखदुःखसमभागिनि ! जयंतिके ! मदीयं तावदिदं हृदयं वज्रसारकठोरं भवच्चेतसा संस्यूतं 141

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254