Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 167
________________ चतुर्थलहरी 137 कंबुगणान्कंधरां सृष्ट्वा च चक्रवाकसमुन्नतकठोरमहीधरजातान्पयोधरयुगलं कृत्वा च वल्लोतल्लजान्बाहुलते विधाय च वियदवलग्नं निर्माय चावर्तसहस्रं नाभिकुहरं समभ्यस्य च सिकताराशिरथांगशतं नितम्बमंडलं परिकल्प्य च स्तंबेरमशुंडादंडकदलीकांडकरभनिकरं चोरुयुगलं कृत्वा च कोमलतरशिरीषकुसुमराशिं शरीरमसृजत् । नूनमेनां मनोहरांगी सृजति विधातरि सर्वाश्च गीर्वाणोरगगन्धवांगना नियुक्तास्तदभ्यासपदे । विषमिवेयं मोहमुपजनयति। पित्तमिव उन्मत्तयति । मदिरेव परवशयति तरुणजनहृदयम् । कर्पूर लिखि शोतलयति लोचनयुगलम् । किमियं स्वाप्नसुन्दरी ? कुतस्त्यमीशं सौंदर्यम् ? चतुरेण चतुराननेन कथमिव संकल्पितम् । कति वत्सरान्विचिंतितमस्यास्सृष्टयै ? कुत्र संपादितमोडक्सामग्रीजालम् । अथवा स्यादेवम् । चिरविरचिततपोबलेन ध्यानमात्रेणैव निर्माय सुन्दरीमिमां प्राकाशयन्निजकुशलतां प्रजापतिः। अहो ! मध्यमलोकभागधेयम् ! पुरा कोदृशं कृतं मध्यमलोकेनानेन तपः ? किं वापराद्धं त्रिदशालयेन। हंत ! चतुराननकृपापरीवाहो मनुजनयनपथसंचारिणोमेनामतानीदिति। तदानीं मरालसेनायां निर्वर्ण्य जयंतिकावदनं परिहासाय सस्मितमयि ! पक्ष्मलाक्षि ! परिस्फुरदिव ते वामाक्षि । तज्जानीहि सन्निहितं जोवसेनमिति निगदंत्यां निरंतरमपि हृदयनिहितजीवसेनतया सा तु तन्नामश्रवणमात्रेण केनाप्युस्थापितेव ससंभ्रमं डोलाफलकात्समुत्थाय गलितत्रपा परितो विक्षिप्तनयना तमनवलोक्य निवदेन दोनदीना कोपकषायितेन सबाष्पं चक्षुषा मरालसेनां पिबन्तीवावलोकयन्ती सभ्रमङ्गं समारोपितकोपेव धिगसमीक्ष्यकारिणि ! किमु तव खेलनस्याहमेव भाजनमिति तामुपालभमाना हृदयगतदयितावलोकनायेवावनतमुखी वामकरतलशायितकपोलफलका तस्मिनेव डोलाफलके समुपाविशत् । जीवसेनस्तु तादृशीमारोपितकोपामवलोक्य मनसोत्थमचिंतयत् । J-18

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254