Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 356
________________ ३५.२ रामायणम् । दण्डमादौ विधायाद्य कुरुषे मत्परीक्षणम् । विचक्षणोसि काकत्स्य सज्जा तत्रापि नन्वहम् ॥८७॥ उचे विलक्षो रामोपि जाने देोषस्तवास्ति न । जनोत्पादितदेोषस्योत्तारणायेदमुच्यते ॥८८॥ जगाद जानकी दिव्यमञ्चकं खीकृतं मया । विशामि वह्नौ ज्वलिते भक्षयाम्यऽथ तन्दुलान् ॥ ८६ ॥ तुलां समधिरोहामि तप्तं कोशं मिवाम्यथ । गृह्णामि जिह्वया फालं किन्तुभ्यं रोचते वद ॥ ६०॥ अनान्तरेऽन्तरिक्षस्यः सिद्धार्थ नारदोप्यदः । लोकः सर्व्वश्च तुमुलं निषिध्येदमभाषत ॥ ६१॥ भो भो राघव सोतेयं निश्चयेन सती सती । महासतीति माकार्षीर्विकल्यमिह जातुचित् ॥ ६२ ॥ रामाप्युवाच हे लेाका मर्यादा कापि नास्ति वः । सङ्कल्यदे।षं युष्माभिरेवेयं दूषिता पुरा ॥६३॥ ब्रूधान्यत्पुरते। यूयमन्यद्दूरे स्थिता पुनः । तदा कथं सदेाषासोच्छीलवत्यधुना कथम् ॥ ६४ ॥ भूयोपि गृह्णतां देोषमर्गला नास्ति कामि वः । प्रत्ययाय ततः सीता विशतु ज्वालिते ऽनले ॥६५॥ इत्युक्वाऽखानयद्रामो गर्त्तं हस्तशतत्रयम् । पुरुषद्वयदशञ्चा पूरयञ्चन्दनेन्धनैः ॥६६॥

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388