Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 385
________________ - रामायणम् । ततो रावणजीवः स तीर्थनाथो भविष्यति । वैजयन्ता च्य तस्तस्य भावी गणधरो भवान् ॥४१॥. ततस्तौ यास्यती मोक्षं स जीवो लक्ष्मणस्य तु । भवत्सूनुमघरथो अनिष्यति गतीः शुभाः ॥४२॥ ततश्च पुष्करद्दीघे प्राग्विदेहविभूषणे । नगर्या रत्नचिवायां चक्रवर्ती भविष्यति ॥४३॥ चक्रवर्तिथियं मुक्का परिव्रजा क्रमेण च । स तीर्थनाथो भविता निर्वाणश्च प्रपत्स्यते ॥४४॥ एवमाकर्ण्य सीतेन्द्रो.रामभद्रं प्रणम्य च । ययौ प्राक् स्नेश्वशतो दुःखभाग यत्र लक्षणः ॥४५॥ सिंहादिरूपे विकृति स्तत्र शंब करावणौ । लक्ष्मणेन समं क्र बो युद्यमानौ ददर्श सः ॥४६॥ नैवं वो युद्धमानानां दुःखं भानीतिवादिनः । परमा धार्मिकाः कडा अग्निकुण्डेषु तान्यधुः ॥४७॥ दह्यमाना स्वयोप्य च्चैः रटन्तो गलिताङ्गकाः । ततः कृष्ट्वा तप्ततैल कुश्यां निदधिरे बलात् ॥४८॥ विलीनदेहा. स्तनापि भाष्ट्र चिचिपिरे चिरम् । . तडत्तडिति शब्देन स्फुटन्तो दुवुः पुनः ॥६॥ इत्पादि दुःखं तेषां स प्रेक्ष्योवाचासुरानिति । किं रे न विस्य यदमी आसन् पुरुषपुङ्गवाः ॥५०॥

Loading...

Page Navigation
1 ... 383 384 385 386 387 388