Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
॥१७॥
Bee
स्वप्नादस्मानुपो भवान् ॥ १९९॥ हृष्टस्ततो मूलदेव - स्तदावासे सुखं वसन् ॥ गत्वोद्याने पञ्चमेऽह्नि, · खम्पकडुतलेऽस्वपीत् ॥ ९९२ ॥ तदा चं तत्पुराधीशः, प्रापापुत्रः परासुताम् ' ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि भीसखाः' ।। १९३ ॥ हस्त्यश्वछत्रभृङ्गार' - चामराः मन्त्रवासिताः ॥ पुरिमध्येऽभ्रमन् राज्य - योग्यं मत्यै तु नाप्नुवन् ॥ १९४ ॥ ततो बहिर्भ्रमन्तस्ते, मूलदेवं व्यलोकयन् ।। प्रसुप्तमपरावृत्तच्छायं चम्पकसन्निधौ ।। १९५ ।। ततश्चक्रे हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गारश्श्रामरी वीजनं तथा ।। १९६ ॥ पुण्डरीकं च तस्योर्ध्वं व्यकसत्पुण्डरीकवत् ॥ सुस्वामिप्राप्तिमुदितैजनैश्चक्रे जयारवः ॥ १९७ ॥ ततस्तं सिन्धुरः ' सौवस्कन्धेऽध्यारोपयत्स्वयम् । प्रावीविशञ्च नगरे, नागरैर्निर्मितोत्सवे ॥ १९८ ।। राज्याभिषेकं तस्याऽथ, चक्रुः सामन्तमन्त्रिणः ॥ तदा च देवता व्योम्नि, व्यक्तमेवमवोचत ।। १९९ ।। देवतानां प्रभावेणा वाप्तराज्यः कलानिधिः । एष विक्रमराजाहो, राजा मान्योऽखिलैर्जनैः ॥ २०० ॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते । तमहं निग्रहीष्यामि, विद्युत्पात इवाङ्घ्रिपम्' ॥ २०१ ।। तन्निशम्याऽखिलं राज- मण्डलं भीतविस्मितम् । तस्याऽवश्यमभूद्वश्यं, सौख्यं धर्मवतो यथा ॥ २०२ ॥ सोऽथ भूपो व्यधात्प्रीतिं प्राभृतप्रेषणादिना ॥ विचारधवलाख्येनो१ मरणम् । १ मन्त्रिणः । ३. भृङ्गारः कलशः । ४ छत्रम् । ५ गजः । ६. वृक्षम् ।
99900908
श्रीमूलदेवनृपचरित्रम्
॥१७॥

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268