SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१७॥ Bee स्वप्नादस्मानुपो भवान् ॥ १९९॥ हृष्टस्ततो मूलदेव - स्तदावासे सुखं वसन् ॥ गत्वोद्याने पञ्चमेऽह्नि, · खम्पकडुतलेऽस्वपीत् ॥ ९९२ ॥ तदा चं तत्पुराधीशः, प्रापापुत्रः परासुताम् ' ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि भीसखाः' ।। १९३ ॥ हस्त्यश्वछत्रभृङ्गार' - चामराः मन्त्रवासिताः ॥ पुरिमध्येऽभ्रमन् राज्य - योग्यं मत्यै तु नाप्नुवन् ॥ १९४ ॥ ततो बहिर्भ्रमन्तस्ते, मूलदेवं व्यलोकयन् ।। प्रसुप्तमपरावृत्तच्छायं चम्पकसन्निधौ ।। १९५ ।। ततश्चक्रे हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गारश्श्रामरी वीजनं तथा ।। १९६ ॥ पुण्डरीकं च तस्योर्ध्वं व्यकसत्पुण्डरीकवत् ॥ सुस्वामिप्राप्तिमुदितैजनैश्चक्रे जयारवः ॥ १९७ ॥ ततस्तं सिन्धुरः ' सौवस्कन्धेऽध्यारोपयत्स्वयम् । प्रावीविशञ्च नगरे, नागरैर्निर्मितोत्सवे ॥ १९८ ।। राज्याभिषेकं तस्याऽथ, चक्रुः सामन्तमन्त्रिणः ॥ तदा च देवता व्योम्नि, व्यक्तमेवमवोचत ।। १९९ ।। देवतानां प्रभावेणा वाप्तराज्यः कलानिधिः । एष विक्रमराजाहो, राजा मान्योऽखिलैर्जनैः ॥ २०० ॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते । तमहं निग्रहीष्यामि, विद्युत्पात इवाङ्घ्रिपम्' ॥ २०१ ।। तन्निशम्याऽखिलं राज- मण्डलं भीतविस्मितम् । तस्याऽवश्यमभूद्वश्यं, सौख्यं धर्मवतो यथा ॥ २०२ ॥ सोऽथ भूपो व्यधात्प्रीतिं प्राभृतप्रेषणादिना ॥ विचारधवलाख्येनो१ मरणम् । १ मन्त्रिणः । ३. भृङ्गारः कलशः । ४ छत्रम् । ५ गजः । ६. वृक्षम् । 99900908 श्रीमूलदेवनृपचरित्रम् ॥१७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy