________________
श्रीमूलदेववृष
चरित्रम्
ज्यविनीस्वामिना समम् ॥२०॥
इतब-देवदत्ताउपिता प्रेक्ष्य, मूलदेवविडम्बनाम्॥ इत्युवाचाऽचलं कोपा-वेशकम्पितविग्रहा' ॥२०४॥रेमूड! त्वया ज्ञाता, परिणीतवधूरहम्॥ यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम्। २०५॥ अतः परं समागम्यं, नैवास्मद्वेश्मनि त्वया॥ इत्युक्त्वा तं च निष्काश्य, गेहात्साऽगानृपान्तिकम्॥२०६॥ इत्यूचे च प्रभो! दत्त, तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ॥ २०७॥ मूलदेवं विना नान्यः, कोऽपि प्रेष्यो मदालये। अचलश्चायमागच्छ-निवार्य इति साऽवदत् ॥ २०८॥ अस्त्वेवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञया वार्ता, तामवोचत माधवी ॥ २०९ ॥ रुष्टोऽथ पार्थिवः सार्थ-वाहमाहूय तं जगौ॥रे! किमत्राऽधिपोऽसि त्वं, यदेवं कुरुषे बलम् ? ॥२१०॥ देवदत्तामूलदेवी, रत्नभूतौ पुरे मम॥ यत्त्वया धर्षितौ तत्त्वां, मारयिष्यामि साम्प्रतम् ॥ २१॥ क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं, भूपश्चेत्यवदत्तदा ॥ २१२ ॥ अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल! सम्प्रति । तथापि मूलदेवोऽत्रा-ऽऽनीते शुद्धिर्भवेत्तव ॥ २१३॥ अचलोऽथ नृपं नत्वा-ऽन्वेषयामास सर्वतः।। मूलदेवंनतु प्राप, निर्भाग्य इव सेवधिम् ॥ २१४ ॥ तया न्यूनतया भूपा१कोपावेशेन कम्पितशरीरा। २ नृप।
॥१८॥