SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् ॥१९॥ B%8CCCC8888888 दीतः सार्थपतिस्ततः ॥ अगात्पारसकूलं द्राग, भाण्डान्यादाय वाहनैः ॥ २१५ ॥ इतश्च मूलदेवोऽपि, तद्राज्यमपि नीरसं ॥ मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ॥ २१६ ॥ प्राहिणोद्देवदत्तायै, लेखं सदूतपाणिना ॥ साऽपि तं वाचयामासा-ऽऽनन्दापूर्णमना इति ॥ २१७ ॥ (युग्मम्) स्वस्ति वेण्णातटान्मूल-देवेनोज्जयिनीस्थिता ॥ आलिङ्ग्यालाप्यते देव-दत्ता चित्ताब्जहंसिका ॥ २१८ ॥ अस्तीह कुशलं देव-गुरुपादप्रसादतः ॥ त्वयाऽपि स्वाङ्गवार्तत्व'-वार्ता ज्ञाप्या मुदे मम ॥ २१९ ॥ किञ्च साधोर्मया दत्तं, दानं तद्वीक्ष्य मां सुरी ॥ चे वरं वृणुष्वेति, ततोऽहमिति तां जगौ ॥ २२० ॥ देवदत्तासहस्रभ-युक्तं राज्यं प्रदेहि मे ॥ ततो राज्यं मया लब्धं, तच्च व्यर्थ त्वया विना ॥ २२१ ॥ तत्सत्वरं त्वयाऽऽऽगम्य-मिहापृच्छ्य धराधरम् ॥ कालक्षेपश्च नात्रार्थे, कर्तव्य इति मङ्गलम् ॥ २२२ ॥ वाचयित्वेति सा तुष्टा, दूतमेवमभाषत । अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीपतेः ॥ २२३ ॥ हृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवो नृपो देव!, मन्मुखेनेति याचते ॥ २२४ ॥ स्वामिन्मे देवदत्तायां, निबिडं प्रेम वर्त्तते॥ तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ २२५ ॥ ततः प्रोचे नृपो राज्यमप्येतत्तस्य विद्यते ॥ तत्किं विक्रमराजेन, राजतन्मात्रमर्थितम् ? ॥ २२६ ॥ इत्युदित्वा १. वातत्वं निरोगत्वम् । २. नृपम् । ३. याचितम्। 8888888 ॥१९॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy