________________
श्रीमूलदेवनृप
चरित्रम्
कवासग्रहः
॥२०॥
देवदत्तां, समाकार्य नृपोऽलपत् ॥ भद्रे ! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ॥ २२७ ॥ देवतादत्तराज्यश्री:, प्राहिणोन्मूलदेवराट् ॥ त्वामानेतुं निजं मत्य, तत्त्वया तत्र गम्यताम् ॥ २२८ ॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे ॥ २२९ ॥ सोऽध वैषयिकं सौख्यं, भुञ्जानो देवदत्तया॥धर्मकृत्यं व्यधान्नित्य-महच्चैत्याचनादिकम् ॥ २३०॥ इतचागण्यपण्यौपं, भृत्वा पारसकूलतः॥ आगाद्वेण्णातटेऽन्येद्युः, सार्थवाहोऽचलाह्वयः॥ २३१॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् ॥ राजा विक्रमराजाऽऽख्यो, वर्ततेऽत्रेति ते जगुः ॥ २३२ ॥ ततः स्वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥क्ष्मापालं प्रेक्षितुं सोऽगा-दूपोप्यासनमार्पयत् ॥ २३३ ॥ तमुपालक्षयन्मङ्क्षु, भूपो भूपं तु नाश्चलः । श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ॥ २३४॥ प्रत्युवाचाऽचलः स्वामि-त्रागां पारसकूलतः॥ ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ॥ २३५॥ भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते॥भूपोऽभ्यधात्समेष्यामः, कौतुकेन स्वयं वयम्॥ २३६ ॥ महाप्रसाद इत्युक्ते-ऽचलेनाऽथ नृपो ययौ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः॥ २३७ ॥ मञ्जिष्ठाक्रमुकादीनि', सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव १ क्रमुकः पुगः २ शुल्कं दाण इति भा।
SESSSSSSSSSSS
॥२०॥